२.१. तत्पुरुषः
(प्रायः उत्तरपदार्थप्रधानः तत्पुरुषः)
२.१. तत्पुरुषः चतुर्धा - १. सामान्यः
२. कर्मधारयः
३. द्विगुः
४. नञ्प्रभृतयः इति ।
२.१.१. सामान्यः सप्तधा
| नाम2 | विग्रहः | समासः |
|---|---|---|
| १. प्रथमातत्पुरुषः | अर्धं ग्रामस्य | अर्धग्रामः |
| २. द्वितीयातत्पुरुषः | गृहं गतः | गृहगतः |
| ३. तृतीयातत्पुरुषः | नखैः भिन्नः | नखभिन्नः |
| ४. चतुर्थीतत्पुरुषः | गवे हितम् | गोहितम् |
| ५. पञ्चमीतत्पुरुषः | चोरात् भयम् | चोरभयम् |
| ६. षष्ठीतत्पुरुषः | वृक्षस्य मूलम् | वृक्षमूलम् |
| ७. सप्तमीतत्पुरुषः | कार्ये कुशलः | कार्यकुशलः |
6
[[P13]]
२.१.२. कर्मधारयः नवधा
[तत्पुरुषः समानाधिकरणः कर्मधारयः - १.२.४२]
| नाम | विग्रहः | समासः |
|---|---|---|
| १. विशेषणपूर्वपदः | नीलो मेघः | नीलमेघः |
| २. विशेषणोत्तरपदः | वैयाकरणः खसूचिः | वैयाकरणखसूचिः |
| ३. विशेषणोभयपदः | शीतम् उष्णम् | शीतोष्णम् |
| ४. उपमानपूर्वपदः3 | मेघः इव श्यामः | मेघश्यामः |
| ५. उपमानोत्तरपदः | नरः व्याघ्रः इव | नरव्याघ्रः |
| ६. अवधारणापूर्वपदः | विद्या एव धनम् | विद्याधनम् |
| ७. सम्भावनापूर्वपदः | आम्रः इति वृक्षः | आम्रवृक्षः |
| ८. मध्यमपदलोपः | शाकप्रियः पार्थिवः | शाकपार्थिवः |
| ९. मयूरव्यंसकादिः | अन्यो देशः | देशान्तरम् |
४. समानविभक्त्यन्तयोर् एव कर्मधारयः । अतः विग्रहवाक्ये पदद्वयम् अपि समानविभक्त्यन्तं (प्रथमाविभक्त्यन्तम्) भवति ।[^p13_1] ५. कर्मधारये ऽपि अन्वर्थानि नामानि । यथा - विशेषणम् उत्तरपदं यस्य सः विशेषणोत्तरपदः कर्मधारयः । ‘नीलमेघः’ इत्यत्र ‘नीलः’ इति विशेषणं पूर्वपदं च । अतः ‘नीलमेघः’ इति विशेषणपूर्वपदः कर्मधारयः । एवम् एव षट्सु भेदेषु ज्ञेयम् । मध्यमपदलोपः इत्यस्य विग्रहः मध्यमपदस्य लोपः यस्य सः इति । मयूरव्यंसकादिः इति गणस्य नाम । गणे बहवः शब्दाः सन्ति । तेषु प्रथमः शब्दः मयूरव्यंसकः । (व्यंसकः = धूर्तः) । इमानि नामानि पाणिनिना न विहितानि । छात्राणां बोधः सुकरो भवतु इति आधुनिकैः कृतानि ।[^p13_2] ६. नीलः मेघः = नीलमेघः । नीलौ मेघौ = नीलमेघौ । नीलाः मेघाः = नीलमेघाः । इति त्रिषु वचनेष्व्-अपि समासो भवति । एवं सर्वेषु समासेषु अर्थं दृष्ट्वा विग्रहः समासश्च वक्तव्यः इति ज्ञेयम् ।
7
[[P14]]
२.१.३. द्विगुः त्रिधा
[ तद्धितार्थोत्तरपदसमाहारे च - २.१.५१
संख्यापूर्वो द्विगुः - २.१.५२]
| नाम | विग्रहः | समासः |
|---|---|---|
| १. समाहारद्विगुः[^p14_2] | त्रयाणां लोकानां समाहारः | त्रिलोकी |
| २. तद्धितार्थद्विगुः | षण्णां मातृणाम् अपत्यम् | षाण्मातुरः[^p14_3] |
| ३. उत्तरपदद्विगुः | पञ्च गावः धनं यस्य सः | पञ्चगवधनः[^p14_4] |
७. द्विगुसमासे पूर्वपदं सङ्ख्यावाचकम् एव भवति । किन्तु सङ्ख्यापूर्वः सर्वो ऽपि न द्विगुः । यथा - पञ्च गावः यस्य सः पञ्चगुः इति बहुव्रीहिः । द्वौ च दश च = द्वादश इति द्वन्द्वः । अष्टाधिका विंशतिः = अष्टाविंशतिः इति कर्मधारयो ऽप्य्-अस्ति ।[^p14_1] ८. सङ्ख्याविशेषणपूर्वपदकर्मधारयस्य स्थाने ऽसंज्ञायाम् अस्य प्रयोगः । सङ्ख्यापूर्वपद-कर्मधारयः संज्ञायाम् एव भवति । यथा - सप्त ऋषयः = सप्तर्षयः । सप्तर्षीणाम् इयं संज्ञा । विशेषणपूर्वपदः कर्मधारयः अयम् । अनेकवद्भावी द्विगुः अयम् इति क्वचित् लिख्यते । तत् तु अपाणिनीयम् । तादृशद्विगोः असम्भवात् । ९. षाण्मातुरः इति तद्धितान्तः शब्दः । तत्र षट्शब्दस्य मातृशब्दस्य चैव द्विगुसमासः । तद्धितप्रत्ययेन विना तद्धितार्थद्विगोः स्थितिः नास्ति । १०. ‘पञ्चगवधनः’ इति बहुव्रीहिः । पञ्चशब्द-गोशब्दयोर् एव द्विगुसमासः । उत्तरपद-द्विगोर् अपि बहुव्रीहिं विना स्थितिः नास्ति ।
8
[[P15]]
२.१.४. नञ्प्रभृतयः[^p15_1] पञ्च
[नञ् - २.२.६,
कुगतिप्रादयः - २.२.१८,
उपपदमतिङ् - २.२.१९]
| नाम | विग्रहः | समासः |
|---|---|---|
| १. नञ्समासः | न धर्मः | अधर्मः |
| २. कुसमासः | कुत्सितः पुरुषः | कुपुरुषः |
| ३. गतिसमासः | अशुक्लं शुक्लं कृत्वा | शुक्लीकृत्य |
| ४. प्रादिसमासः | १. प्रगतः आचार्यः | प्राचार्यः |
| २. अतिक्रान्तः देवम् | अतिदेवः | |
| ३. निष्क्रान्तः वाराणस्याः | निर्वाराणसिः | |
| ५. उपपदसमासः | कुम्भं करोति इति[^p15_2] | कुम्भकारः |
११. ‘कर्मधारयः नवधा’ इत्य्-उक्ते कर्मधारयस्यैव नव प्रभेदाः इत्य्-अर्थः । किन्तु ‘नञ्प्रभृतयः पञ्च’ इत्य्-उक्ते नञ्समासस्यैव पञ्च प्रभेदाः इति न मन्तव्यम् । अत एव प्रभृतिशब्दः प्रयुक्तः । १२. अत्र विग्रहे एव तिङन्तं श्रूयते, न तु समासे । अतः तिङन्तेन सह समासः इति न मन्तव्यम् ।
9
[[P16]]
२.२. बहुव्रीहिः
[ अन्यपदार्थप्रधानः बहुव्रीहिः ]
२.२. बहुव्रीहिः द्विधा - १. सामान्यः २. विशेषः इति ।
२.२.१. सामान्यः4 षोढा
| नाम | विग्रहः | समासः |
|---|---|---|
| १. द्वितीयार्थबहुव्रीहिः | प्राप्तम् उदकं यं सः | प्राप्तोदकः (ग्रामः) |
| २. तृतीयार्थबहुव्रीहिः | पीतं क्षीरं येन सः | पीतक्षीरः (बालः) |
| ३. चतुर्थ्यर्थबहुव्रीहिः | दत्तः पशुः यस्मै सः | दत्तपशुः (रुद्रः) |
| ४. पञ्चम्यर्थबहुव्रीहिः | उद्भृतं जलं यस्मात् सः | उद्धृतजलः (कूपः) |
| ५. षष्ठ्यर्थबहुव्रीहिः | पीतम् अम्बरं यस्य सः | पीताम्बरः (हरिः) |
| ६. सप्तम्यर्थबहुव्रीहिः | बहूनि फलानि यस्मिन् सः | बहुफलः (वृक्षः) |
10
[[P17]]
२.२.२. विशेषः नवधा
| नाम | विग्रहः | समासः |
|---|---|---|
| १. व्यधिकरणः | चक्रं पाणौ यस्य सः | चक्रपाणिः |
| २. सङ्ख्योत्तरपदः | विंशतेः समीपे ये सन्ति ते | उपविंशाः |
| ३. सङ्ख्योभयपदः | द्वौ वा त्रयो वा | द्वित्राः |
| ४. सहपूर्वपदः | शिष्येण सह वर्तते इति | सशिष्यः |
| ५. व्यतिहारलक्षणः | केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् | केशाकेशि |
| ६. दिगन्तराललक्षणः | दक्षिणस्याः पूर्वस्याः दिशो यदन्तरालम् | दक्षिणपूर्वा |
| ७. नञ्बहुव्रीहिः5 | अविद्यमानः पुत्रः यस्य सः | अपुत्रः |
| ८. प्रादिबहुव्रीहिः | निर्गता कृपा यस्मात् सः | निष्कृपः |
| ९. उपमानपूर्वपदः | गजाननम् इव आननं यस्य सः | गजाननः |
11
[[P18]]
२.३. द्वन्द्वः
[उभयपदार्थप्रधानः द्वन्द्वः]
२.३. द्वन्द्वः द्विधा - १. इतरेतरः २. समाहारः इति ।
२.३.१. इतरेतरः द्विधा
| नाम | विग्रहः | समासः |
|---|---|---|
| १. द्विपदद्वन्द्वः | रामश्च कृष्णश्च | रामकृष्णौ |
| २. बहुपदद्वन्द्वः | हरिश्च हरश्च गुरुश्च | हरिहरगुरवः |
२.३.२. समाहारः द्विधा
| नाम | विग्रहः | समासः |
|---|---|---|
| १. 6समाहारः | संज्ञा च परिभाषा च अनयोः समाहारः | संज्ञापरिभाषम् |
| २. 7नित्यसमाहारः | पाणी च पादौ च एतेषां समाहारः | पाणिपादम् |
12
[[P19]]
२.४. अव्ययीभावः
[पूर्वपदार्थप्रधानः अव्ययीभावः]
२.४. अव्ययीभावः8 प्रायः त्रयस्त्रिंशद्धा । (प्रसिद्धाः केचन भेदाः प्रदर्श्यन्ते ।)
| नाम | विग्रहः | समासः |
|---|---|---|
| १. समीपार्थकः | कृष्णस्य समीपम् | उपकृष्णम् |
| २. अभावार्थकः | मक्षिकाणाम् अभावः | निर्मक्षिकम् |
| ३. योग्यतार्थकः | रूपस्य योग्यम् | अनुरूपम् |
| ४. वीप्सार्थकः | दिनं दिनं प्रति | प्रतिदिनम् |
| ५. पदार्थानतिवृत्त्यर्थकः | शक्तिम् अनतिक्रम्य | यथाशक्ति |
| ६. मर्यादार्थकः | आ मुक्तेः | आमुक्ति (संसारः) |
| ७. अभिविध्यर्थकः | आ बालेभ्यः | आबालम् (हरिभक्तिः) |
| ८. आभिमुख्यार्थकः | अग्निम् अभि | अभ्यग्नि |
| ९. मात्रार्थकः | शाकस्य लेशः | शाकप्रति |
| १०. अवधारणार्थकः | यावन्तः श्लोकाः | यावच्छ्लोकम् (अच्युतप्रणामाः) |
| ११. पारेशब्दयुक्तः | पारे समुद्रस्य | पारेसमुद्रम् |
| १२. मध्येशब्दयुक्तः | मध्ये गङ्गायाः | मध्येगङ्गम् |
13
[[P20]]
२.५. समासभेदसम्बद्धाः अन्ये केचन अंशाः
२.५.१. एकशेषः
एकशेषः समासो न । कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु पञ्चसु वृत्तिषु एकशेषः अन्यतमः । अतः समासः यथा वृत्तिः तथैव एकशेषो ऽपि पृथक् वृत्तिर् एव । अयम् एकशेषः द्वन्द्वसमासस्य अपवादः । अतः एकशेषस्यापि उदाहरणानि प्रदर्श्यन्ते ।
यथा –
१. माता च पिता च = पितरौ
२. भ्राता च स्वसा च = भ्रातरौ
३. पुत्रश्च दुहिता च = पुत्रौ
४. हंसश्च हंसी च = हंसौ
५. स च रामश्च = तौ
६. स च यश्च = यौ
७. भवन्तश्च भवत्यश्च = भवन्तः
८. यूयं च वयं च = वयम्
९. रामश्च रामश्च = रामौ
२.५.२. अलुक्समासः
नायं पृथक् समासः । समासे कृते पूर्वोत्तरपदयोः विभक्त्योः लोपः भवतीति उक्तम् । क्वचित् पूर्वपदस्य विभक्तेः लोपः न भवति । तदा अलुक्समासः इति व्यवहारः ।
यथा –
वनेचरः - अयम् उपपदसमासः ।
जनुषान्धः - अयं तृतीयातत्पुरुषः ।
आत्मनेपदम् - अयं चतुर्थीतत्पुरुषः ।
परस्मैपदम् - अयं चतुर्थीतत्पुरुषः ।
युधिष्ठिरः - अयं सप्तमीतत्पुरुषः ।
कण्ठेकालः - अयं व्यधिकरणबहुव्रीहिः ।
देवानांप्रियः - अयं षष्ठीतत्पुरुषः ।
14
[[P21]]
२.५.३. नित्यसमासः
अयम् अपि न पृथक् समासः । अव्ययीभावे ‘अव्ययं विभक्ति …….’ इत्यादिना सूत्रचतुष्टयेन विहितः अव्ययीभावः (आहत्य चतुर्विंशतिः अस्ति ।) नित्यसमासः । यत्र संज्ञादिषु समस्तपदेषु विग्रहस्यापेक्षया विशेषार्थस्य भानम् अस्ति तत्रापि नित्यसमास एव । अत एव नित्यसमासे अस्वपदविग्रहः । उपपदसमासादिषु यत्र अस्वपदविग्रहः प्रदर्श्यते तत्रापि नित्यसमासत्वम् एव ।
२.५.४. असमर्थसमासः
परस्परान्वितयोर् एव सुबन्तयोः समासः । किन्तु ययोः समासः इष्टः तयोः द्वयोः अन्वयः न भवति चेद् अपि क्वचित् समासः भवति ।
यथा - अपुनर्गेयाः श्लोकाः । पुनः न गेयाः इति विग्रहः । अत्र नञ्-शब्दस्य पुनः शब्दस्य च (अपुनः) समासः जातः । किन्तु नञः अन्वयः गेयपदेनैव, न तु पुनः शब्देन । तथापि समासः कृतः । अत एव एषः असमर्थसमासः इत्य्-उच्यते । एवम् एव सूर्यं न पश्यन्ति इति = असूर्यम्पश्याः इत्यादाव्-अपि ।
२.५.५. वृत्तिः9
विग्रहवाक्यावयवपदार्थेभ्यः परः = अन्यः यो ऽयं विशिष्टैकार्थः, तत्प्रतिपादिका वृत्तिः । प्रथमविगृहीतानां पदानां प्रत्येकम् अर्थवत्त्वेन, समुदायशक्त्या विशिष्टैकार्थप्रतिपादिका वृत्तिः इति फलितम् ।
वृत्तयः पञ्च ।
कृत्-तद्धित-समास-एकशेष-सनाद्यन्तधातुरूपाः पञ्च वृत्तयः ।
15
[[P22]]
यथा -
| नाम | विग्रहः | उदाहरणम् |
|---|---|---|
| १. कृद्वृत्तिः | पचति इति | पाचकः |
| २. तद्धितवृत्तिः | दशरथस्य अपत्यम् | दाशरथिः |
| ३. समासवृत्तिः | राज्ञः पुरुषः | राजपुरुषः |
| ४. एकशेषवृत्तिः | माता च पिता च | पितरौ |
| ५. सनाद्यन्तधातुवृत्तिः | १. पठितुम् इच्छति | पिपठिषति |
| २. पुत्रम् आत्मन इच्छति | पुत्रकाम्यति | |
| ३. पुनः पुनः/ अतिशयेन वा नृत्यति | नरीनृत्यते | |
| …………………. | …………………. | |
| …………………. | …………………. | |
| …………………. | …………………. |
16
[[P23]]
-
- समासभेदानां विस्तरः चतुर्थप्रकरणे (पृ ३४) द्रष्टव्यः ।
-
३. समासे श्रूयमाणं पूर्वपदं विग्रहावस्थायां यद्विभक्त्यन्तं भवति तद्विभक्तिनाम्ना व्यवहारः ।
यथा - ग्रामं गतः = ग्रामगतः । अयं द्वितीयातत्पुरुषः । ↩︎ -
- उपमानानि सामान्यवचनैर् एव समस्यन्ते । उपमानोपमेययोः साधारणः धर्मः सामान्यम् । तद्विशिष्टोपमेयवचनैः समासः इत्य्-अर्थः । ‘मेघश्यामः’ इत्यत्र श्यामशब्दः सामान्यवचनः । तेन ‘मेघ इव रामः = मेघरामः’ इति न भवति ।
-
१३. समानाधिकरणबहुव्रीहिर् एव सामान्यशब्देन अत्र व्यवहृतः । षट्स्व्-अपि भेदेषु विग्रहे पदद्वयम् अपि प्रथमाविभक्त्यन्तं भवति । किन्तु अन्यपदार्थस्य बोधकं यद् इति पदं विग्रहे यादृशविभक्त्यन्तं भवति तद्विभक्त्यर्थनाम्ना व्यवहारः क्रियते । यथा - पीतम् अम्बरं यस्य सः = पीताम्बरः । पीतम् अम्बरं चेति विग्रहे पदद्वयम् अपि प्रथमान्तम् । अन्यपदार्थस्य बोधकं ‘यद्’ इति पदं षष्ठ्यन्तम् । अतः अयं षष्ठ्यर्थबहुव्रीहिः इत्य्-उच्यते । बहुपदबहुव्रीहिः सामान्ये एव अन्तर्भवति । ↩︎
-
१४. नञ्बहुव्रीहिः, प्रादिबहुव्रीहिः, उपमानपूर्वपदबहुव्रीहिश्च समानाधिकरण-बहुव्रीहौ एव अन्तर्भवन्ति । तत्तन्नाम्ना व्याख्यानादिषु व्यवह्रियते इति ज्ञापनार्थं केवलं विशेषे योजिताः । ↩︎
-
१५. समाहारद्वन्द्वः सर्वत्र भवति । अतः घटपटम् इति, घटपटौ इति च भवति । ↩︎
-
१६. प्राणितूर्यसेनाङ्गानां समाहारः एव । इतरेतरः न भवति । ‘पाणिपादाः’ इति अपशब्दः एव । ↩︎
-
१७. अव्ययीभावस्य गणनायां सूक्ष्मः क्लेशः अस्ति । अतः प्रायः इत्य्-उक्तम् । ↩︎
-
- वृत्तिज्ञानं क्वचिदपेक्षितं भवति इत्यतः वृत्तिः सङ्क्षेपेण निरूपिता अत्र ।