१ अथ समासः (उपक्रमः)

१.१. समासः

१. समसनं समासः । अनेकस्य पदस्य एकपदीभवनं समासः इत्य्-अर्थः ।
यथा - सीतायाः पतिः = सीतापतिः

२. समासः सुबन्तानां भवति, ‘न तु तिङन्तानाम् ।1

३. समासः युगपद् द्वयोः द्वयोः सुबन्तयोः भवति । द्वन्द्वे तु युगपद् बहूनाम् अपि ।2
यथा - १. राजपुरुषागमनम् ।
राज्ञः पुरुषः = राजपुरुषः ।
राजपुरुषस्य आगमनम् = राजपुरुषागमनम् । २. हरिहरगुरवः ।
हरिश्च हरश्च गुरुश्च = हरिहरगुरवः ।

४. परस्परान्वितयोः सुबन्तयोः समासः भवति ।
यथा - राज्ञः पुत्रः = राजपुत्रः । अत्र द्वयोः परस्परान्वयः अस्ति ।
यत्र परस्परान्वयो नास्ति तत्र न समासः ।
यथा - ‘भवति दर्शनं राज्ञः, पुत्रः चोरस्य धावति ।’ अत्र राज्ञः दर्शने अन्वयः । पुत्रस्य चोरे अन्वयः । अतः अत्र राजशब्दस्य पुत्रशब्दस्य च परस्परान्वयाभावात् न समासः ।

[[P8]]

५. समासे पूर्वत्र श्रूयमाणं पदं पूर्वपदम् इति, उत्तरत्र श्रूयमाणं पदम् उत्तरपदम् इति च व्यवह्रियते ।
यथा - चोरात् भयम् = चोरभयम् ।
अत्र ‘चोर’ इति पूर्वपदम् । ‘भयम्’ इति उत्तरपदम् ।

६. समासे जाते पूर्वपदम् उत्तरपदं च प्रातिपदिकरूपेण स्थितं भवति । ततः समस्तात् पदात् विभक्तिः योजनीया ।
यथा - शास्त्रे निपुणः = शास्त्र + ङि + निपुण + सु → शास्त्रनिपुण → शास्त्रनिपुणः

१.२. विग्रहः

वृत्त्यर्थावबोधकं वाक्यं विग्रहः । वृत्तिः = समासादिः । समासादेर् अर्थं बोधयितुं यद्-वाक्यम् उच्यते तद्-वाक्यं ‘विग्रहः’ इति व्यवह्रियते ।

यथा - ‘वृक्षमूलम्’ इति समासः । ‘वृक्षस्य मूलम्’ इति विग्रहः ।

  • विग्रहः द्विधा - १. स्वपदविग्रहः २. अस्वपदविग्रहः3 - इति ।

१. स्वपदविग्रहः -

समासस्यार्थः समासघटकैः पदैर् यदि वर्ण्यते तदा स्वपदविग्रहः । तथा च - ‘समासघटकपदसहितं वाक्यं स्वपदविग्रहः’ इत्य्-अर्थः । (स्व(=समास)पदैः विग्रहः)

यथा - ग्रामगतः इति समासः ।
ग्रामं गतः इति स्वपदविग्रहः ।

2

[[P9]]

२. अस्वपदविग्रहः -

समासस्यार्थः समासघटकपदानि विहाय पदान्तरैर् यदि वर्ण्यते तदा अस्वपदविग्रहः । तथा च - ‘समासघटकपदरहितं वाक्यम् अस्वपदविग्रहः’ इत्य्-अर्थः । (अत्र एकं पदं समासघटकम् एव प्रायो भवति ।) नित्यसमासे अस्वपदविग्रहः क्रियते ।

यथा - उपकृष्णम् इति समासः ।
कृष्णस्य समीपम् इति अस्वपदविग्रहः ।
अत्र समीपम् इति पदं न समासघटकं पदम् ।

१.३. समासभेदाः

  • समासः द्विधा - १. केवलसमासः
    २. विशेषसमासः - इति ।

१. केवलसमासः4 -

तत्पुरुषादिसंज्ञाविनिर्मुक्तः समाससंज्ञामात्रयुक्तः केवलसमासः ।

यथा - पूर्वं भूतः = भूतपूर्वः

२. विशेषसमासः चतुर्धा - १. तत्पुरुषः २. बहुव्रीहिः ३. द्वन्द्वः ४. अव्ययीभावः चेति ।

  • १. तत्पुरुषः चतुर्धा - १. सामान्यः (७) २. कर्मधारयः (९) ३. द्विगुः (३) ४. नञ्प्रभृतयः (५)
  • २. बहुव्रीहिः द्विधा - १. सामान्यः (६) २. विशेषः (९)

3

[[P10]]

१.४. समासार्थः

  • ३. द्वन्द्वः द्विधा - १. इतरेतरः (२) २. समाहारः (२)
  • ४. अव्ययीभावः प्रायः त्रयस्त्रिंशद्धा (३३) प्रसिद्धाः (१२)

समासे पूर्वपदम् उत्तरपदं च भवतः इत्य्-उक्तम् । तत्र पूर्वपदस्य अपि अर्थः अस्ति । उत्तरपदस्य अपि अर्थः अस्ति । कदाचित् पूर्वपदार्थस्य, कदाचित् उत्तरपदार्थस्य, कदाचित् अन्यपदार्थस्य, कदाचित् उभयपदार्थस्य च प्राधान्यं भवति ।5 यस्य पदस्यार्थः प्रायः क्रियया अन्वितो भवति सो ऽर्थः प्रधानम् इत्य्-उच्यते ।

यथा - राजदूतो गच्छति । राज्ञः दूतः इति विग्रहः । ‘राजन्’ इति पूर्वपदम् । ‘दूत’ इति उत्तरपदम् । ‘गच्छति’ इति क्रियापदम् । गमनक्रियया ‘दूत’ इति उत्तरपदस्य अर्थः एव अन्वितः भवति, न तु पूर्वपदस्य राजपदस्य अर्थः । अतः ‘राजसम्बन्धी दूतः गच्छति’ इत्य्-अर्थः सिद्धो भवति । एवं च अत्र दूतपदार्थः क्रियया अन्वितः इति दूतपदार्थः प्रधानम् ।

समस्ते पदे श्रुते को नाम अर्थो ऽत्र प्रधानं स्याद् इति सन्देहे, यत्किञ्चित्क्रियापदम् उच्चारणीयम् । ततः पूर्वोत्तरपदार्थयोः कतरः पदार्थः क्रियया अन्वितो भवतीति परिशील्य प्रधानाप्रधानयोर्निर्णयः कर्तव्यः ।

4

[[P11]]

१. प्रायः6 उत्तरपदार्थप्रधानः तत्पुरुषः ।
उत्तरपदस्य अर्थः यदि क्रियया अन्वितो भवति तर्हि तत्पुरुषः इत्य्-अर्थः ।
यथा - कर्मकुशलः ।
‘कर्मकुशलम् आह्वयतु’ इत्यत्र उत्तरपदस्य कुशलपदस्य अर्थः आह्वानक्रियया अन्वितो भवति, न तु पूर्वपदस्य अर्थः ।

२. प्रायः अन्यपदार्थप्रधानः बहुव्रीहिः ।
अन्यपदं = समासाघटकं पदम् । समासाघटकस्य पदस्य अर्थः यदि क्रियया अन्वितो भवति तर्हि बहुव्रीहिः इत्य्-अर्थः ।
यथा - पीतं क्षीरं येन सः = पीतक्षीरः (बालः) ।
‘पीतक्षीरः (बालः) गच्छति’ इत्यत्र पीतपदस्य क्षीरपदस्य वा अर्थः गमनक्रियया अन्वितो न भवति । किन्तु समासाघटकस्य बालपदस्य (अन्यपदस्य) अर्थः अन्वितो भवति ।

३. प्रायः उभयपदार्थप्रधानः द्वन्द्वः ।
उभयोः पदार्थयोः यदि क्रियया अन्वयो भवति तर्हि द्वन्द्वः इत्य्-अर्थः । उभयपदार्थप्रधानः इत्यस्य सर्वपदार्थप्रधान इत्यत्र तात्पर्यम् । तेन बहुपदद्वन्द्वे ऽपि लक्षणसमन्वयो भवति ।
यथा - रामकृष्णौ
‘रामकृष्णौ प्रविशतः’ इत्यत्र प्रवेशनक्रियायाम् उभयोर् अपि पदार्थयोः अन्वयः भवति ।

४. प्रायः पूर्वपदार्थप्रधानः अव्ययीभावः ।
पूर्वपदस्य अर्थस्य प्राधान्ये अव्ययीभावः इत्य्-अर्थः ।
यथा - उपवृक्षम् ।
वृक्षस्य समीपम् इति विग्रहः । अत्र ‘उप’ इति पूर्वपदस्य सामीप्यार्थस्य प्राधान्यम् ।

5

[[P12]]


  1. १. क्वचित् तिङन्तयोः सुबन्त-तिङन्तयोश्च समासः श्रूयते । यथा - खादतमोदता, एहियवम् । किन्तु एतानि परिगणितानीति सर्वत्र कर्तुं न शक्यते । ↩︎

  2. २. क्वचित् बहुव्रीहौ तत्पुरुषे च बहूनाम् अपि सुबन्तानां युगपत् समासो भवति । यथा - रूपवती ↩︎

    • अलौकिकविग्रहो ऽप्य् अस्ति । एषः प्रक्रियादशायाम् आश्रीयते ।
      यथा - रमापतिः । अस्य समासस्य अलौकिकविग्रहः - रमा + ङस् + पति + सु इति ।
     ↩︎
    • अस्य समासस्य विस्तरो नास्ति । अगतिकगतौ अयं केवलसमासः आश्रीयते । अयम् एव ‘सुप्सुपा समासः’ इति व्याख्यानादिषु लिख्यते । ‘सह सुपा’ (२.१.४) इति सूत्रेण विहितः समासः इति तस्य तात्पर्यम् ।
     ↩︎
    • ‘राजदूतस्य पुत्रः गच्छति’ इत्यादौ उत्तरपदार्थस्य दूतस्य पुत्रे एव अन्वयः, न तु गमनक्रियायाम् । अतः क्रियया अन्वितो भवति इति पङ्क्तिः कथं सङ्गच्छताम् ? सत्यम् । किन्तु यदा वाक्यात् पृथक्कृत्य समस्तपदं केवलं परिशीलयामः, तदा एवम् उपाय आश्रयणीय इत्यत्र तात्पर्यम् इति मन्तव्यम् ।
     ↩︎
    • क्वचित् एतत् लक्षणं समन्वितं न भवति । एवम् अन्यानि त्रीणि अपि लक्षणानि । अतः सर्वत्र प्रायः इत्य्-उक्तम् ।
     ↩︎