प्रास्ताविकं किञ्चित्

(प्रथममुद्रणस्य)

छात्राणाम् अध्यापकानां च उपकारकं भवेद् इति धिया लिखितम् इदं समासपुस्तकम् । छात्राः तावत् प्रायः समासभेदान् तेषाम् उदाहरणानि च ज्ञातुम् इच्छन्ति । अध्यापकाः समासस्य लक्षणं, विग्रहस्य स्वरूपं, पूर्वोत्तरयोः पदयोः जायमानान् विकारान् च सङ्क्षेपेण अवगन्तुम् अभिलषन्ति । विषयस्य [[दार्य|दार्ढ्य]]सम्पादनाय विभिन्नान् अभ्यासान् छात्राः विशेषेण वाञ्छन्ति । अतः एतादृशानाम् अपेक्षायाः अनुगुणम् इदं पुस्तकम् आरचितम् ।

समासो नाम कः ? को नाम विग्रहः ? समासभेदाः कति ? कानि च तेषाम् उदाहरणानि ? इत्य्-एते अंशाः प्रथमे द्वितीये च प्रकरणे संक्षेपेण लिखिताः । टिप्पण्यः अपि क्वचित् आरचिताः । छात्राः एतत् प्रकरणद्वयं सावधानं पठित्वा समासस्य उदाहरणानि पुनः पुनः परिशील्य यदि स्मृतिपथे स्थापयन्ति तर्हि समासस्य विषये प्रायः क्लेशं न अनुभवेयुः ।

तृतीये प्रकरणे पूर्वोत्तरपदयोः विशेषाः निरूपिताः । लिङ्गानुसरणार्थम् अन्तर्व्यवस्थानिर्णयार्थं च मार्गदर्शनम् अपि अत्र संक्षेपेण कृतम् अस्ति । अनन्तरप्रकरणे समासभेदानां विस्तरेण निरूपणं कृतम् ।

अस्मिन् पुस्तके विषयः पुनरुक्तः इव प्रतीयते । आदौ सङ्क्षेपेण निरूपणं, पश्चात् विस्तरेण कथनम् इति क्रमः यदा आश्रीयते तदा पुनरुक्तता अनिवार्या भवति । केचन अंशाः तु पुनः पुनः उक्ताः, ये अंशाः अवश्यं स्मरणीयाः भवेयुः ।

द्वितीयप्रकरणे समासभेदनिरूपणावसरे प्रसिद्धानि सूत्राणि लिखितानि । किन्तु तेषाम् अर्थः न उक्तः । चतुर्थे प्रकरणे विस्तरेण निरूपणसमये तु सूत्रतात्पर्यं लिखितम् । अधस्तात् सूत्राणि उल्लिखितानि । आवश्यकतायां सत्यां टिप्पणी तु विशेषतः लिखिता सर्वत्र । एतावता अपि समाससम्बन्धी सर्वो ऽपि विषयः अत्र निरूपितः इति न । प्रायः प्रतिशतं सप्तत्यंशाः निरूपिताः स्युः ।

पुस्तके अस्मिन् अभ्यासपाठान् रचितवते श्री जनार्दनहेगडेमहोदयाय विशेषेण धन्यवादाः समर्प्यन्ते । कलाकारः, अक्षरसंयोजकः, मुद्रणालयाधिकारी, सर्वविधाः सहकारिणः चापि कृतज्ञतापूर्वकं स्मर्यन्ते ।

  • लेखकः

भाव सं ।। श्रावणपूर्णिमा
२१.८.९४

(षष्ठमुद्रणस्य)

पुस्तकस्यास्य उपयोगयोग्यता बहुभिः विद्वद्भिः अध्यापकवर्यैः च बहुधा प्रशंसिता । इदानीम् एतस्य षष्ठं मुद्रणं यत् प्रचलद् अस्ति तत् तु महते सन्तोषाय । सहकृतवन्तः सर्वे धन्यवादार्हाः ।

  • प्रकाशकः

व्यय सं ।। कार्त्तिकपूर्णिमा
५.११.२००६

[[P4]]

उपयोगार्थ सूचना

  • छात्राः
    • केचन अंशाः
      • ‘कः समासः इति कथं ज्ञातव्यम् ?’ इति ज्ञातव्यं चेत् → ४-५ पुटौ पश्यन्तु ।
      • ‘समासे कति भेदाः सन्ति ?’ इति ज्ञातव्यं चेत् → ६-१६ पुटं पश्यन्तु ।
      • ‘समस्तस्य पदस्य किं लिङ्गम् ?’ इति ज्ञातव्यं चेत् → २८ पुटं पश्यन्तु ।
      • ‘समस्तस्य पदस्य किम् अन्तं स्यात् ?’ इति ज्ञातव्यं चेत् → ३०-३३ पुटान् पश्यन्तु ।
  • अध्येतारः
    • सर्वे ऽपि
      • समासभेदाः विस्तरेण ज्ञातव्याः चेत् → ३४-५८ पुटान् पश्यन्तु ।
      • ‘सुबन्तयोः योजनसमये का प्रक्रिया ?’ इति ज्ञातव्यं चेत् → ६४-६७ पुटान् पश्यन्तु ।
      • पूर्वोत्तरपदयोः विशेषनियमाः विस्तरेण ज्ञातव्याः चेत् → १७-२७ पुटान् पश्यन्तु ।
      • पूर्वपदे उत्तरपदे च स्मरणीयाः अंशाः सङ्ग्रहेण ज्ञातव्याः चेत् → २९-३३ पुटान् पश्यन्तु ।

IV

[[P5]]

अनुक्रमणिका

प्रथमं प्रकरणम् - अथ समासः (उपक्रमः) …… १-५

  • १.१. समासः/१
  • १.२. विग्रहः/२
  • १.३. समासभेदाः/३
  • १.४. समासार्थः/४

द्वितीयं प्रकरणम् - सोदाहरणं समासभेदाः …… ७-१६

  • २.१. तत्पुरुषः –
    • २.१.१. सामान्यः /६
    • २.१.२. कर्मधारयः/७
    • २.१.३. द्विगुः/८
    • २.१.४. नञ्प्रभृतयः/९
  • २.२. बहुव्रीहिः –
    • २.२.१. सामान्यः/१०
    • २.२.२. विशेषः/११
  • २.३. द्वन्द्वः –
    • २.३.१. इतरेतरः/१२
    • २.३.२. समाहारः/१२
  • २.४. अव्ययीभावः/१३
  • २.५. समाससम्बद्धाः अन्ये केचन अंशाः/१४

तृतीयं प्रकरणम् - पूर्वोत्तरपदयोः विशेषः …… १७-३३

  • ३.१. पूर्वपदस्य नियमाः –
    • ३.१.१. सामान्याः/१७
    • ३.१.२. विशेषाः/१९
  • ३.२. उत्तरपदस्य नियमाः –
    • ३.२.१. सामान्यः/२०
    • ३.२.२. विशेषाः/२०
      • ३.२.२.१. (अ) तत्पुरुषस्य नियमाः/२१
      • (आ) समासान्तप्रत्ययस्य अपवादः (तत्पुरुषे)/२३
      • ३.२.२.२. बहुव्रीहेः नियमाः/२४
      • ३.२.२.३. द्वन्द्वसमासस्य नियमाः/२६
      • ३.२.२.४. अव्ययीभावस्य नियमाः/२६
  • ३.३. लिङ्गानुसरणम् /२८

V

[[P6]]

  • ३.४. एष सङ्ग्रहः –
    • ३.४.१. पूर्वपदे स्मरणीयाः –
      • ३.४.१.१. सामान्याः/२९
      • ३.४.१.२. विशेषाः/२९
    • ३.४.२. उत्तरपदे स्मरणीयाः –
      • ३.४.२.१. सामान्याः/३०
      • ३.४.२.२. विशेषाः –
        • (अ) तत्पुरुषः/३०
        • (आ) बहुव्रीहिः/३२
        • (इ) द्वन्द्वः/३३
        • (ई) अव्ययीभावः/३३

चतुर्थं प्रकरणम् - समासभेदविस्तरः …… ३४-५८

  • ४.१.१ तत्पुरुषः/३४
  • ४.१.२ कर्मधारयः/४०
  • ४.१.३ द्विगुसमासः/४४
  • ४.१.४ नञ्प्रभृतयः/४६
  • ४.२ बहुव्रीहिः/५०
  • ४.३ द्वन्द्वः/५५
  • ४.४ अव्ययीभावः/५७

पञ्चमं प्रकरणम् - इदम् अवधेयम् …… ५९-६३

षष्ठं प्रकरणम् - समासे प्रक्रियाः …… ६४-६७

  • पूर्वोक्तानाम् एष सङ्ग्रहः/६७

सप्तमं प्रकरणम् - अभ्यासाः …… ६८-७९

  • उत्तराणि …… ८०-८२

VI

[[P7]]