समास-चक्रम्

विस्तारः (द्रष्टुं नोद्यम्)

This presentation of the Samāsacakra is based primarily on the pothı̄ pamphlet printed by Nirṇayasāgara Press, Bombay, 1933. The numbering and layout have been revised. Marginal references are to sections in Scholastic Sanskrit: A Handbook for Students, by Gary A. Tubb and Emery Boose (New York: 2007). The md file is prepared by Deepro Chakraborty on March 30, 2025.

(Title:)
अथ समासचक्रप्रारम्भः ।

(Homage:)
श्रीगणेशाय नमः ।

(Overview of categories of nominal compounds:)
(१) षोढा समासाः सं क्षेपाद् अष्टविं शतिधा पुनः (§ 1.44)
नित्यानित्यत्वयोगेन लुगलुक्त्वेन च द्विधा ॥
(२) तत्राष्टधा तत्पुरुषः सप्तधा कर्मधारयः ।
सप्तधा च बहुव्रीहिर् द्विगुर् आभाषितो द्विधा ॥
(३) द्वन्द्वो ऽपि द्विविधो ज्ञेयो ऽव्ययीभावो द्विधा मतः ।
तेषां पुनः समासानां प्राधान्यं स्याच् चतुर्विधम् ॥

(Characterized by formulas of analysis:)
(४) चकारबहुलो द्वन्द्वः स चासौ कर्मधारयः ।
यस्य येषां बहुव्रीहिः शेषस् तत्पुरुषः स्मृतः ॥

(Categories of verb-form use:)
(५) कर्तृकर्मक्रियायुक्तः प्रयोगः स्यात् सकर्मकः ।
अकर्मकः कर्मशून्यः कर्मद्वन्द्वो द्विकर्मकः ।

अथ बालबोधार्थं प्रयोगविधिः कथ्यते। प्रयोगाः ।
पञ्चविधाः — सकर्मको ऽकर्मकः कर्मणि भावे द्विकर्मकश् चेति भेदात् ।

१। सकर्मकप्रयोगो यथा—कृष्णो भक्तान् रक्षति।
२। अकर्मकप्रयोगो यथा—कृष्णस् तिष्ठति।
३। कर्मणि प्रयोगो यथा—विष्णुना प्रपञ्चः क्रियते।
४। भावे प्रयोगो यथा—कृष्णेन स्थीयते।
५। द्विकर्मकप्रयोगो यथा—यो धराम् अन्नं दुदोह।
इति प्रयोगविधिः ।

(Nominal compounds:)
अथ समासविधिः कथ्यते।

(Six types of compound:)
समासाः षड्विधाः—तत्पुरुषः कर्मधारयो बहुव्रीहिर् द्विगुर् द्वन्द्वो ऽव्ययीभावश् चेति भेदात् । (§ 1.44)

(By distribution of syntactical predominance:)
तल्लक्षणानि तु—

पूर्वपदार्थप्रधानो ऽव्ययीभावः ।
उत्तरपदार्थप्रधानस् तत्पुरुषः ।
उभयपदार्थप्रधानो द्वन्द्वः ।
अन्यपदार्थप्रधानो बहुव्रीहिः ।
द्विगुकर्मधारयौ तत्पुरुषभेदौ ।

(Definition of a vigraha:)
समासार्थावबोधकं वाक्यं विग्रह इति। (§ 1.18)

(Tatpuruṣa compounds:)
तत्राष्टधा तत्पुरुषक्रमः—प्रथमातत्पुरुषो द्वितीयातत्पुरुषस् तृतीयातत्पुरुषश् चतुर्थीतत्पुरुषः पञ्चमीतत्पुरुषः षष्ठीतत्पुरुषः ।
सप्तमीतत्पुरुषो नञ्तत्पुरुषश् चेति। (§ 1.18)

१। तत्र प्रथमातत्पुरुषो यथा— (§ 1.53)
अर्धं पिप्पल्याः अर्धपिप्पली।
पूर्वं कायस्येति पूर्वकायः ।

२। द्वितीयातत्पुरुषो यथा— (§ 53.1)
कृष्णं श्रितः कृष्णश्रितः ।
ग्रामं गतो ग्रामगतः ।
कान्तारम् अतीतः कान्तारातीतः ।

३। तृतीयातत्पुरुषो यथा—
शङ्कुलया खण्डः शङ्कुलाखण्डः ।
धान्येनार्थो धान्यार्थः ।
मासेन पूर्वो मासपूर्वः ।

४। चतुर्थीतत्पुरुषो यथा—
यूपाय दारु यूपदारु।
कुण्डलाय हिरण्यम् कुण्डलहिरण्यम्
गुरवे दक्षिणा गुरुदक्षिणा।

५। पञ्चमीतत्पुरुषो यथा—
अर्थाद् अपेतः अर्थापेतः ।
सिंहाद् भयं सिंहभयम्
वृश्चिकाद् भीः वृश्चिकभीः ।

६। षष्ठीतत्पुरुषो यथा—
कृष्णस्य भक्तः कृष्णभक्तः ।
आम्रस्य फलम् आम्रफलम् ।
राज्ञः पुरुषो राजपुरुषः ।

७। सप्तमीतत्पुरुषो यथा—
अक्षेषु शौण्डः अक्षशौण्डः ।
कर्मणि कुशलः कर्मकुशलः ।
विद्यायां निपुणः विद्यानिपुणः ।

८। नञ्तत्पुरुषो यथा—
(§ 1.58)
न ब्राह्मणः अब्राह्मणः ।
न वृषभः अवृषभः ।
पापाभावः अपापम् ।
धर्मविरुद्धः अधर्मः ।

इति तत्पुरुषः ।

(Karmadhāraya compounds:)

अथ कर्मधारयः कथ्यते। स च विशेषणपूर्वपदो विशेष्यपूर्वपदो
विशेषणोभयपद उपमानपूर्वपद उपमानोत्तरपदः सम्भावनापूर्वपदो ऽवधारणापूर्वपदश् चेति भेदात् सप्तविधः । तत्र (§ 1.54)

१। विशेषणपूर्वपदः कर्मधारयो यथा— (§ 1.54.1)
कृष्णश् चासौ सर्पश् च कृष्णसर्पः ।
कृष्णौ च तौ सर्पौ च कृष्णसर्पौ।
कृष्णाश् च ते सर्पाश् च कृष्णसर्पाः ।
रक्ता चसौ लता च रक्तलता।
रक्ते च ते लते च रक्तलते।
रक्ताश् च ताः लताश् च रक्तलताः ।
नीलं च तद् उत्पलं च नीलोत्पलम् ।
नीले च ते उत्पले च नीलोत्पले।
नीलानि च तानि उत्पलानि च नीलोत्पलानि।

२। विशेष्यपूर्वपदः कर्मधारयो यथा। (§ 1.54.3)
वैयाकरणश् चासौ खसूचिश् च वैयाकरणखसूचिः ।
गोपालश् चासौ बालश् च गोपालबालः ।

३। विशेषणोभयपदः कर्मधारयो यथा— (§ 1.54.2)
शीतं च तद् उष्णं च शीतोष्णम् ।

४। उपमानपूर्वपदः कर्मधारयो यथा— (§ 1.55.1)
मेघ इव श्यामो मेघश्यामः ।
कम्बुवद् ग्रीवा कम्बुग्रीवा।
चन्द्रवन् मुखं चन्द्रमुखम्।

५। उपमानोत्तरपदः कर्मधारयो यथा—
(§ 1.55.2)
पुरुषो व्याघ्र इव पुरुषव्याघ्रः ।
नरः सिंह इव नरसिंहः ।

६। सम्भावनापूर्वपदः कर्मधारयो यथा—
गुण इति बुद्धिः गुणबुद्धिः ।

७। अवधारणापूर्वपदः कर्मधारयो यथा— (§ 1.54.4)
विद्यैव धनं विद्याधनम् ।
अविद्यैव शृङ्खला अविद्याशृङ्खला।
मध्यमपदलोपी समासो यथा—
शाकप्रियः पार्थिवः शाकपार्थिवः ।
देवपूजको ब्राह्मणः देवब्राह्मणः ।
इति कर्मधारयः ।

(Bahuvrı̄hi compounds:)
अथ बहुव्रीहिः कथ्यते। स च द्विपदो बहुपदः सहपूर्वपदः सङ्ख्योत्तरपदः सङ्ख्योभयपदो व्यतिहारलक्षणो दिगन्तराललक्षणश् चेति भेदात् सप्तविधः । (§ 1.64)

१। तत्र द्विपदबहुव्रीहिर् यथा— (§ 1.65.1)
चित्रा गावो यस्य स चित्रगुर् गोपः ।
प्राप्तम् उदकं यं स प्राप्तोदको ग्रामः ।
भुक्तम् ओदनं येन स भुक्तौदनो भूपः ।
निर्जितः कामो येन स निर्जितकामः शिवः ।
विभक्तं धनं यैस् ते विभक्तधना बन्धवः ।
दत्तः सूपो यस्मै स दत्तसूपो ब्राह्मणः ।
उद्धृतं धनं यस्मात् तद् उद्धृतधनं कुण्डम् ।
चक्रं पाणौ यस्य स चक्रपाणिर् हरिः ।
करे स्थितं धनं यस्य स करस्थितधनो वणिक्।
पुष्पिता द्रुमा यस्मिन् स पुष्पितद्रुम आरामः ।
बहवो यज्वानो यस्यां सा बहुयज्वा शाला।
पुष्पिता द्रुमा यस्मिन् तत् पुष्पितद्रुमं वनम् ।
खरस्य मुखम् इव मुखं यस्य स खरमुखस् तुरगः ।
उष्ट्रस्य मुखम् इव मुखं यस्य स उष्ट्रमुखो यक्षः ।
उच्चैर् घटो यस्याः सा उच्चैर्घटा नारी।

अङ्गगात्रोदरस्तनकण्ठोष्ठदन्तमुखाक्षिकेशाः स्त्रियां बहुव्रीहौ ı̄बन्ता भवन्ति। ते च यथा—

सुन्दरम् अङ्गं यस्याः सा सुन्दराङ्गी।
शोभनं गात्रं यस्याः सा सुगात्री।
कृशम् उदरं यस्याः सा कृशोदरी।
चारू स्तनौ यस्याः सा चारुस्तनी।
इन्दीवरे इव अक्षिणी यस्याः सा इन्दीवराक्षी।
कम्बुर् इव कण्ठो यस्याः सा कम्बुकण्ठी।
कुटिलाः केशा यस्याः सा कुटिलकेशी।

(Discussion of feminine endings:)
इतरेषाम् अङ्गादिवाचकानां स्त्रीत्वे ऽपि आबन्तत्वम् एव- चारुदेहा विस्तृतालका
आवृतकुचा कुन्ददशना इत्यादि।
उरुपृथुलघुबहुपटुऋजुस्वादुचारुमृदुशब्दानां स्त्रीलिङ्गविशेषणत्वे
ı̄बन्तत्वम् अपि। यथा—मृद्वी शाटी, लघ्वी भाषेत्यादि। इति द्विपदबहुव्रीहिः ।

२। बहुपदा यथा— (§ 1.65.5)
अधिक उन्नतो ऽं सो यस्य सो ऽधिकोन्नतां सः ।

३। सहपूर्वपदो यथा— (§ 1.65.4)
सह कृष्णेन वर्तत इति सकृष्णः ।
सह पुत्रेणेति सपुत्रः ।
रामेण सह वर्तत इति सरामः ।

४। सं ख्योत्तरपदो यथा—
(§ 1.67.1 (1))
दशानां समीपे ये सन्ति ते उपदशाः ।

५। सं खोभयपदो यथा—
(§ 1.67.1 (2))
द्वौ वा त्रयो वा द्वित्राः ।

६। व्यतिहारलक्षणो यथा—
(§ 1.67.3)
केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवर्तत इति केशाकेशि युद्धम् ।
दण्डैर् दण्डैः कृत्वा इदं युद्धं प्रवर्तत इति दण्डादण्डि ।

७। दिगन्तराललक्षणो यथा—
(§ 1.67.2)
दक्षिणस्याः पूर्वस्याश् च दिशो यद् अन्तरालं सा दक्षिणपूर्वा ।

इति बहुव्रीहिः ।

(Dvigu compounds:)
अथ द्विगुः । द्विगुसमासो द्विविधः — एकवद्भावी अनेकवद्भावी चेति।
(§ 1.56)

१। एकवद्भावी द्विगुर् यथा— (§ 1.56.3)
त्रयाणां शृङ्गाणां समाहारस् त्रिशृङ्गम् ।
पञ्चानां फलानां समाहारः पञ्चफली ।

२। अनेकवद्भावी द्विगुर् यथा— (§ 1.56)
सप्त च ते ऋषयश् च सप्तर्षयः ।

(Dvandva compounds:)
अथ द्वन्द्वः । द्वन्द्वो ऽपि द्विविधः—इतरेतरसमाहारभेदात् । (§ 1.61)

१। इतरेतरद्वन्द्वो यथा—
(§ 1.62)
प्लक्षश् च न्यग्रोधश् च प्लक्षन्यग्रोधौ ।
रामश् च कृष्णश् च रामकृष्णौ ।

२। समाहारद्वन्द्वो यथा—
(§ 1.63)
हरिश् च हरश् च गुरुश् च हरिहरगुरु ।
प्राणितूर्यसेनाङ्गानां द्वन्द्वैकवद्भावः ।
(अ) प्राण्यङ्गे यथा—
पाणी च पादौ च मुखं च पाणिपादमुखम् ।
(ब्) तूर्याङ्गे यथा—
मार्दङ्गिकश् च वैणविकश् च मार्दङ्गिकवैणविकम् ।
शङ्खश् च पटहश् च शङ्खपटहम् ।
(च्) सेनाङ्गे यथा—
राजन्याश् च रथाश् च अश्वाश् च राजन्यरथाश्वम् ।
इति द्वन्द्वः ।

(Avyayı̄bhāva compounds:)
अथाव्ययीभावः । स यथा—
(§ 1.48)
तटं तटं प्रति अनुतटम् ।
गिरिं गिरिं प्रति अनुगिरि ।
क्रमम् अनतिक्रम्य वर्तत इति यथाक्रमम् ।
वेलायाम् इत्य् अधिवेलम् ।
कुम्भस्य समीपे वर्तत इत्य् उपकुम्भम् ।
मक्षिकाणाम् अभावः निर्मक्षिकम् ।
हिमस्यात्ययः अतिहिमम् ।

अव्ययीभावस्याव्ययत्वात् त्रिषु लिङ्गेषु समानं रूपम् ।
इति षट् समासा निर्णीताः ।

(Retention and dropping of case endings:)
अथालुक्समासो लुक्समासश् च ।

१। लुक्समासो यथा—
तनुर् एव लता तनुलता ।
कृष्णा एव मेघाः कृष्णमेघाः ।

२। अलुक्समासो यथा— (§ 1.32.2)
वने चरतीति वनेचरः ।
पङ्के रुहतीति पङ्केरुहम् ।

(Taddhita formations:)
मत्वर्थीयो यथा— (§ 1.40)

मत्वर्थीयो यथा— (§ 1.40)
बुद्धिर् अस्यास्तीति बुद्धिमान् ।
धनम् अस्यास्तीति धनवान् ।
बुद्धिर् अस्यास्तीति बुद्धिमान् ।
धनम् अस्यास्तीति धनवान् ।

धीरस्य भावो धीरता। (§ 1.37)
जनानां समूहो जनता ।
घटस्य भावो घटत्वम् ।

(Summary examples of types of compounds:)

(६) वृक्षशाखा तत्पुरुषः श्वेताश्वः कर्मधारयः ।
रक्तवस्त्रो बहुव्रीहिर् द्वन्द्वश् चन्द्रदिवाकरौ ॥

(Concord of modifiers:)
(७) यल् लिङ्गं यद् वचनं या च विभक्तिर् विशेष्यस्य ।
तल् लिङ्गं तद् वचनं सैव विभक्तिर् विशेषणस्यापि ॥

(Indeclinables:)
(८) सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन् न व्येति तद् अव्ययम् ॥

(Standard word order:)
(९) आदौ कर्तृपदं वाच्यं द्वितीयादिपदं ततः । ## (§ 1.78)
क्त्वा-तुमुल्̃-ल्यप् च मध्ये तु कुर्याद् अन्ते क्रियापदम् ॥

(Kāraka categories:)
अथ कारकम् उच्यते—

(१०) कर्ता कर्म च करणं सं प्रदानं तथैव च ।
अपादानाधिकरणम् इत्य् आहुः कारकाणि षट्

(Nominal cases:)

(११) निर्देशो प्रथमा प्रोक्ता सैव चामन्त्रणेष्व् अपि ।
द्वितीया कर्मणि प्रोक्ता तृतीया कर्तृकरणयोः ॥

(१२) ज्ञानज्ञाप्ये ऽङ्गविकारे हेताव् अपि च इष्यते ।
तादर्थ्ये सं प्रदाने च चतुर्थी स्याच् च सर्वदा ॥

(१३) हेत्वपादानयोः पञ्चमी षष्ठी तु कर्तृकर्मसं बन्धे ।
अधिकरणनिमित्तसत्त्वे सप्तमी स्याच् च विषये ऽपि ॥

(१४) यदा कर्तरि प्रथमा स्यात् कर्मणि द्वितीया तदा ।
यदा कर्तरि तृतीया स्यात् कर्मणि प्रथमा तदा ॥

(Syntactical order of words:)

(१५) विशेषणं पुरस्कृत्य विशेष्यं तदनन्तरम् । (§ 1.78)
कर्तृकर्मक्रियायुक्तम् एतद् अन्वयलक्षणम् ॥

प्रथमान्तस् तृतीयान्तः षष्ट्यन्तः कर्ता ।
द्वितीयान्तं षष्ठ्यन्तं कर्म ।
तृतीयान्तं करणम् ।
चतुर्थ्यन्तं सं प्रदानम् ।
पञ्चम्यन्तम् अपादानम् ।
षष्ठ्यर्थः सम्बन्धः ।
सप्तम्यन्तम् अधिकरणम् ।

इति कारकाणि ।

॥ । ( examples of cases in Marāṭhı̄ ) ॥ ।

(Vocative:)
हे अरे अगा अहो हो भो हे अगे गे अहो हो भो हे (iti) सं बोधनम् ।

(Colophon:)
इति समासचक्रं समाप्तम् । इति शम् ।