Source: TW
विगता नासिका यस्य सः (the one whose nose is removed) = विग्रः / विख्यः / विखुः / विखः ।
विनासिकः?
“नासिका” इति धातुजशब्दः ।
नास (शब्दे) + ण्वुल् → नासक । नासक + टाप→ नासिका ।
२.२.२४ अनेकमन्यपदार्थे इत्यत्र पाठितेन
“प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः” इति वार्त्तिकेन,
प्रादिगणस्य “वि” इति शब्दः नासिका-शब्देन सह समस्यते । अयं बहुव्रीहिसमासः ।
वि + नासिका
यस्मिन् बहुव्रीहिसमासे पूर्वपदम् उपसर्गः, उत्तरपदं च नासिका इति शब्दः,
तस्मात् ५.४.११९ उपसर्गाच्च इति सूत्रेण अच् इति समासान्तप्रत्ययः भवति ।
→ वि + नासिका + अच्
ग्र/ख्य
कौमुद्यां ८.४.२८ उपसर्गाद् बहुलम् इत्यत्र पाठिताभ्यां वेर्ग्रो वक्तव्यः / ख्यश्च वक्तव्यः इति वार्त्तिकाभ्यां वि-उपसर्गात् परस्य नासिका-शब्दस्य ग्र / ख्य आदेशौ भवतः । → वि + ग्र / ख्य + अच् → विग्र / विख्य
शाकटायनव्याकरणे “खुखौ च” इत्यपि किञ्चन सूत्रम् अस्ति । अनेन सूत्रेण नासिका-शब्दस्य “खु” / “ख” इत्यपि आदेशौ भवतः । अत्र कोऽपि समासान्तप्रत्ययः न भवति ।
वि + खु / ख → विखु / विखः ।
विनसा
भट्टिकाव्ये ५.८ इत्यत्र “यद्यहं नाथ, नायास्यं विनसा हतबान्धवा” इति प्रयोगः दृश्यते । अत्र “विगता नासिका यस्याः सा = विनसा” इति प्रयोगः कथम् इति प्रश्नः ।
तत्र उत्तरम् —
विगता नासिका विनासिका इति तत्पुरुषसमासः ।
अत्र बहुव्रीहिसमासः न, अतः तद्विशिष्टः अच्-प्रत्ययः उत “ख्य / ग्र” आदेशः अपि न भवति ।
विनसा इति विनासिका-शब्दस्य तृतीयैकवचनम् ।
विनासिका-शब्दात् तृतीया-एकवचनस्य टा-प्रत्यये कृते ६.१.६३ पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु इति सूत्रेण नासिका-शब्दस्य नस्-आदेशः भवति ।
विनासिका + टा → विनस् + टा → विनसा ।
अन्वयार्थम् अत्र “उपलक्षिता” इति पदम् अध्याह्रियते । उपलक्षिता = दृष्टा ।
विनसा उपलक्षिता = नासिकां विना या दृष्टा सा ।
अहम् विनसा (उपलक्षिता), हतबान्धवा (च) यदि न आयास्यम् —इति अन्वयः ।
कथं तर्हि विनसा हतबान्धवेति भट्टिः ?
विगतया नासिकयोपलक्षितेति व्याख्येयम् — ८.४.२८ उपसर्गाद् बहुलम् इत्यत्र कौमुदी ।
कथं तर्हीति । ग्रख्ययोरन्यतरेण भाव्यमिति प्रश्नः। नासिकयेति। तथा च विनसेति न प्रथमान्तं, किं तु पद्दन्न इति नसादेशे तृतीयान्तमिति भावः — ८.४.२८ उपसर्गाद् बहुलम् इत्यत्र तत्त्वबोधिनी ।
नसा
विनसा इत्यत्र “नसा” इति आकारान्तशब्दः अस्ति — इति दुर्घटवृत्तिकारस्य मतम् । विगता नसा यस्याः सा = विनसा । नसा नासापि नासिका इति त्रिकाण्डशेषः । नसँ (कौटिल्ये) + अच् → नसा — इति धातुप्रदीपस्य काचित् व्याख्या । अत्र “नासिका” इति शब्दः नास्ति, अतः अत्र ग्रादेशः, समासान्तप्रत्ययः च नैव विधीयते । भट्टिकाव्यस्य केषुचन संस्करणेषु (यथा, चन्द्रकलाव्याख्यासहितम् भट्टिकाव्यम् इत्यत्र) “विनसा” इत्यस्य स्थाने विनासा इति प्रयोगः दृश्यते । विगता नासा यस्याः सा = विनासा । नसा नासापि नासिका इति त्रिकाण्डशेषः । घोणा नासा तु नासिका इत्यमरः ।
विगता नासिका यस्याः सा = विगतनासिका इति अपि बहुव्रीहिसमासः सम्भवति । २.२.२४ अनेकमन्यपदार्थे इति सूत्रम् , १.२.४८ गोस्त्रियोरुपसर्जनस्य इति नासिकाशब्दस्य ह्रस्वः । ततः स्त्रीत्वे टाप्-प्रत्ययः ।