वारम्

Source: TW

पञ्चवारं

क्रियायाः पौनःपुन्यस्य गणनां कर्तुम् वार इति शब्दः प्रयुज्यते । यथा — देवदत्तः पञ्चवारं भुङ्क्ते ।
वार = अवसरः (occasion) । कस्यचित् कार्यस्य पञ्च अवसराः विद्यन्ते चेत् तत् कार्यं “पञ्चवारं कृतम्” इति प्रयोगः । वारशब्दः समभिव्याहृतक्रियापर्याप्ते काले वर्तते — इति ५.४.१७ सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् इत्यत्र बालमनोरमा । वारशब्दस्य क्रियोत्पत्ति-आधारकालवाचित्वम् — इति ५.४.१७ सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् इत्यत्र तत्त्वबोधिनी । क्रियायाः पौनःपुन्यस्य परिगणनार्थं वारशब्दः प्रयुज्यते इति आशयः ।
“पञ्चवार” इति समस्तपदम् । पञ्च वारान् यस्मिन् कर्मणि तद् यथा तथा — इति विग्रहवाक्यम् । पञ्चवारम् भुङ्क्ते इत्यत्र क्रियाविशेषणत्वात् द्वितीया ।

पञ्च वारान्

पञ्च वारान् भुङ्क्ते इति व्यस्तप्रयोगः अपि साधु । अत्र २.३.५ कालाध्वनोरत्यन्तसंयोगे इति द्वितीया ।

वारं वारं

वारं वारं — इति प्रयोगः अपि साधु । वारं वारं मुहुः शश्वत् — इति शब्दरत्नावली ।