उञ्छषष्ठः

Source: TW

रघुवंशे ५.८ इत्यत्र उञ्छषष्ठः इति पदं दृश्यते — तान्युञ्छषष्ठाङ्कितसैकतानि । अत्र “उञ्छानां (प्रकीर्णधान्यानां) षष्ठः” इति समासविग्रहः भवेत् इति भासते ।

परन्तु २.२.११ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन‌ इत्यनेनैव सूत्रेण पूरणप्रत्ययान्तशब्देन सह षष्ठ्यन्तस्य समासः निषिध्यते अतएव, “सतां षष्ठः” इत्यत्र षष्ठीसमासः न सम्भवति ।

तर्हि उञ्छषष्ठः इत्यत्र कथं समासविग्रहः इति चेत्, तस्य समाधानं द्विधा उक्तम् —

उञ्छषष्ठः इत्यत्र “उञ्छानां षष्ठभागः” इति विग्रहः — इति मल्लिनाथः ।
अत्र ५.३.५०‌ षष्ठाष्टमाभ्यां ञ च इति सूत्रेण “षष्ठ” शब्दात् अन् इति तद्धितप्रत्ययः विधीयते येन उञ्छषष्ठ इति शब्दः सिद्ध्यति ।

उञ्छेषु षष्ठः, उञ्छात्मकः षष्ठः इति वा व्याख्येयम् इति मनोरमायां स्थितम् — इति २.२.११ पूरणगुण इत्यत्र तत्त्वबोधिनी ।