त्र्यम्बकः / त्रियम्बकः

महादेवस्य त्र्यम्बक इति अपि अन्यत् नाम । त्रीणि अम्बकानि (नेत्राणि) यस्य सः = त्रि + अम्बक = त्र्यम्बक ।

ऋग्वेदे अपि त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् अस्मिन् मन्त्रे त्र्यम्बक इत्येव शब्दः दृश्यते । कुत्रचित् शाखाभेदेन त्रियम्बक इति अपि प्रयुक्तः दृश्यते ।

अस्य साधुत्वज्ञापनार्थम् तन्वादीनां छन्दसि बहुलम् इति वार्त्तिकम् भाष्ये परिगणितम् अस्ति ।

तन्वादीनां शब्दानां विषये यण् तथा इयङ् - उभयथा भवितुम् अर्हति इति अस्य वार्त्तिकस्य आशयः । त्र्यम्बक-शब्दस्य अस्मिन् गणे परिगणनात् यणादेशघटितम् त्र्यम्बक इति रूपम्, तथा च इयङादेशघटितम् त्रियम्बक इति रूपम्, उभयोः साधुत्वम् अस्ति ।

तन्वादीनां छन्दसि बहुलम् (वार्तिकम्) ॥ तन्वं पुषेम (त॒न्वं॑ पुषेम) । तनुवं वा । त्र्यम्बकम् (त्र्य॑म्बकम्) । त्रियम्बकम् — इति कौमुद्याम् ६.४.८६ छन्दस्युभयथा इत्यत्र कौमुदी । इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलमुपसङ्ख्यानं कर्तव्यम्। तन्वं पुषेम। तनुवं पुषेम। विष्वं पुषेम। विषुवं पुषेम। स्वर्गो लोकः। सुवर्गो लोकः। त्र्यम्बकं यजामहे। त्रियम्बकं यजामहे —‌ इति ६.४.७७ अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यत्र काशिका ।