Source: TW
अव्ययेन सह षष्ठ्यन्तस्य समासः न
अव्ययेन सह षष्ठ्यन्तस्य समासः न भवति । २.२.११ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन इति सूत्रम् ।
अतएव, “ब्राह्मणस्य लेखनम्” इत्यत्र यथा षष्ठीसमासः सम्भवति तथा “ब्राह्मणस्य कृत्वा” इत्यत्र न सम्भवति ।
अकृद्-अव्ययेन
परन्तु तस्य उपरि = तदुपरि इति षष्ठीसमासः अवश्यं कृतः दृश्यते ।
एवमेव, तव कृते = त्वत्कृते, मम कृते = मत्कृते इत्येतानि समस्तपदानि अपि सिद्ध्यन्ति । भाष्यकारः अपि २.२.२४ अनेकमन्यपदार्थे इत्यत्र सर्वपश्चात् इति समस्तपदं प्रयुङ्क्ते । सर्वेषां पश्चात् इति विग्रहः । यत्कृते अरीन् निगृह्णीमः - इति भट्टिकाव्ये अपि प्रयोगः ।
अतः अव्ययैः सह षष्ठीसमासः सम्भवति इति स्पष्टम् ।
तत्कथम् इति चेत् —
पूर्वोत्तरसाहचर्यात् कृद्-अव्ययम् एव गृह्यते,
तेन तदुपरीत्यादि सिद्धमिति रक्षितः —
२.२.११ पूरणगुण इत्यत्र सिद्धान्तकौमुदी ।
सूत्रे “अव्यय”शब्दात् पूर्वम् “सत्” इति कृत्प्रत्ययनिर्देशः ; “अव्यय”शब्दात् अनन्तरम् च “तव्य” इत्यपि कृत्प्रत्ययनिर्देशः एव । अतः साहचर्यात् “अव्यय” इत्यनेनापि कृत्प्रत्ययान्तम् अव्ययम् (यथा - स्मृत्वा, स्मर्तुम्, स्मारं) इत्येव ग्रहीतव्यम्, न हि अन्यद् अव्ययम् — इत्याशयः ।
कैयट-तिरस्कारः
कैयटेन एतादृशानां प्रयोगाणां साधुत्वं नैव स्वीकृतम् । तस्य मतेन सर्वेषाम् अव्ययानां विषये षष्ठीसमासः निषिद्धः एव । परन्तु नागेशेन एतेषां साधुत्वं स्वीकृतम् अस्ति ।
अस्माभिः तु शिष्टप्रयोगान् दृष्ट्वा एव अव्ययेन सह षष्ठीसमासस्य प्रयोगः करणीयः इति संक्षेपः ।