Source: TW कुमारसम्भवे “इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम्” इति प्रयोगः दृश्यते । अत्र प्राप्तश्रीः इति समस्तपदम् । प्राप्ता श्रीः येन सः प्राप्तश्रीः ।
श्रीः
श्रिञ् सेवायाम् अस्मात् धातोः ३.२.१७८ अन्येभ्योऽपि दृश्यते इत्यत्र पाठितेन क्विब्वचिप्रच्छपायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च इति वार्त्तिकेन क्विप्-प्रत्ययः,
तथा च धातोः दीर्घादेशे कृते श्री इति शब्दः सिद्ध्यति ।
श्री इति ईकारान्तस्त्रीलिङ्गशब्दः ।
अयं इयङ्स्थानी शब्दः अपि अस्ति, यतः अजादिप्रत्यये परे ६.४.७७ अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन अस्य इयङ्-आदेशः भवति ।
न नदी
अतएव अस्य शब्दस्य १.४.३ यू स्त्र्याख्यौ नदी इत्यनेन नदीसंज्ञायां प्राप्तायाम्, १.४.४ नेयङुवङ्स्थानावस्त्री इति सूत्रेण इयं नदीसंज्ञा निषिध्यते ।
श्री शब्दः नदीसंज्ञकः नास्ति इति अस्य आशयः ।
कप् प्रत्ययः
अतश्च, प्राप्ता श्रीः येन सः इत्यत्र ५.४.१५३ नद्यृतश्च इति कप्-प्रत्ययः न सम्भवति । अग्रे समासप्रक्रियायाम् “प्राप्ता” शब्दस्य ६.३.३४ स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु इत्यनेन पुंवद्भावे कृते “प्राप्त” इति जायते, अतः समस्तपदम् “प्राप्तश्रीः” इति सिद्ध्यति ।
५.४.१५४ शेषाद् विभाषा इत्यनेन पाक्षिकः कप्-प्रत्ययः तु अवश्यं सम्भवति, येन प्राप्तश्रीकः इत्यपि साधुरूपं सिद्ध्यति ।