भाषापाकः-3 | https://ashtadhyayi.com/courses/bhaashaapaak3/
३००
प्रादिभिः सह समासविधानम्
प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप — इति प्रादयः ।
प्रकाराः
प्रादिभिः सह समासविधानं त्रिधा शक्यम् —
प्रादितत्पुरुषसमासः ।
यथा — शोभनः पुरुषः सुपुरुषः । प्रगतः आचार्यः प्राचार्यः । निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः । २.२.१८ कुगतिप्रादयः इति सूत्रम् ।
प्रादिबहुव्रीहिः ।
निर्गता दया यस्मात् सः निर्दयः । शोभना बुद्धिः यस्य सः सुबुद्धिः । उद्गतः गन्धः यस्य सः उद्गन्धिः । २.२.२४ अनेकमन्यपदार्थे इत्यत्र विद्यमानं प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः इति वार्त्तिकम् ।
अव्ययीभावः ।
हरौ इति अधिहरि । मक्षिकाणाम् अभावः निर्मक्षिकम् । कृष्णस्य समीपम् उपकृष्णम् । २.१.६ अव्ययं विभक्तिसमीप… इति सूत्रम् ।
विग्रह-वाक्यानि
अर्थवत्समासः इति सिद्धान्तः ।
अर्थं, संदर्भं च दृष्ट्वा विग्रहवाक्यं वक्तव्यम् इति आशयः ।
अनुगुणम्
देवदत्तः वचनानुगुणं व्यवहारं करोति ।
यथा सः वचनं ब्रूते, तथैव व्यवहारं करोति इत्याशयः ।
अत्र अनुगुणम् = अनुगतम् गुणम् इति प्रादितत्पुरुषसमासः स्वीक्रियते । वचनस्य गुणम् अनुगतः व्यवहारः इति सम्पूर्णः आशयः ।
प्रादितत्पुरुषसमासस्य विशेष्यनिघ्नता अस्ति । अनुगुणः व्यवहारः, अनुगुणा कृतिः, अनुगुणं कार्यम् ।
देवदत्तः आदेशस्य अनुगुणं करोति । यथा आदेशः लभ्यते तथैव कार्यं करोति इत्याशयः ।
अत्र अनुगुणम् = गुणम् अनतिक्रम्य इति अव्ययीभावसमासः स्वीक्रियते । आदेशस्य गुणम् अनतिक्रम्य कार्यं करोति इत्याशयः ।
अव्ययीभावसमासेन नित्यम् अव्ययं सिद्ध्यति । अतः अनुगुणम् इति अव्ययम् । एवमेव, देवदत्तः अनुतीरं तिष्ठति इत्यत्रापि अव्ययीभावसमासः । तीरम् अनतिक्रम्य अनुतीरम् ।
ईश्वरः अनुक्षणं पश्यति । प्रतिक्षणं पश्यति / प्रत्येकं क्षणे पश्यति / नित्यं पश्यति इत्याशयः । अनुक्षणम् = अनुगतं क्षणम् इति तत्पुरुषसमासः । क्रियाविशेषणरूपेण प्रयोगः, अतः क्लीबत्वम् । अथ वा, क्षणे क्षणे अनुक्षणम् इति अव्ययीभावः अपि सम्भवति । सीता अनुपदं गच्छति । कस्यचित् अनन्तरं गच्छति इत्याशयः । अनुपदम् = अनुरूपं पदम् इति तत्पुरुषः, अथ वा पदस्य पश्चात् इति अव्ययीभावः ।
उपसर्गता
धातूनां योगे प्रादयः उपसर्गसंज्ञकाः भवन्ति । अनुकरणम्, अनुग्रहः, अनुगतः इत्यादिषु शब्देषु अनु इत्यस्य उपसर्गसंज्ञा, तथा च तदनुषङ्गेन कृदन्तेन सह गतिसमासः स्वीक्रियते । यथा, अनु क्रियते इति अनुकरणम् (अनु + कृ + ल्युट्) । अनु गृह्यते इति अनुग्रहः (अनु + ग्रह् + अप्) ।