Source: TW परभृत् इत्यस्य अर्थः काकः । परं बिभर्ति इति परभृत् । डुभृञ् + (कर्त्रर्थे) क्विप् । उपपदसमासः । पिकः स्वस्य अण्डं काकस्य नीडे संस्थापयति, तस्मात् जायमानान् शिशून् काकः एव पोषयति, अतः काकः परभृत् ।
काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः । ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि — अमरकोशे २.५.२२
परभृत इत्यस्य अर्थः पिकः (कोकिलः) ।
परेण भृतः इति परभृतः । तृतीयातत्पुरुषसमासः ।
पिकः शिशु-अवस्थायां काकेन पोषितः, अतः पिकः परभृतः ।
स्त्रीत्वे टाप् - परभृता ।
चूतयष्टिरिवाभ्याशे मधौ परभृता-उन्मुखी — इति कुमारसम्भवे ६.२ परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः — इति रघुवंशे ९.४७