पूजितलक्ष्मीः

भाषापाकः-3 | https://ashtadhyayi.com/courses/bhaashaapaak3/

२९३

पूजितलक्ष्मीः, पूजितलक्ष्मीकः इति शब्दौ

पूजितलक्ष्मीः तथा च पूजितलक्ष्मीकः - इति द्वौ अपि बहुव्रीहिसमासेन निर्मितौ शब्दौ ।

पूजिता लक्ष्मीः येन सः = पूजितलक्ष्मीकः ।

पूजिताः लक्ष्म्यौ / लक्ष्म्यः येन सः = पूजितलक्ष्मीः / पूजितलक्ष्मीकः ।

विग्रहवाक्ये लक्ष्मी-शब्दः एकवचने अस्ति चेत् कप्-प्रत्ययः नित्यः, अन्यत्र पाक्षिकः ।+++(5)+++

कप्

बहुव्रीहिसमासस्य अन्ते कप्-प्रत्ययविधानम् —
नदीसंज्ञान्तात् बहुव्रीहेः ५.४.१५३ नद्यृतश्च इति कप् ।
बहवः कुमार्यः अस्मिन् देशे सः बहुकुमारीकः देशः ।

उरःप्रभृतिगणः

उरःप्रभृतिगणस्य शब्दः यस्य अन्ते, तादृशात् बहुव्रीहेः ५.४.१५१ उरःप्रभृतिभ्यः कप् इति कप् ।
प्रियं सर्पिः यस्य सः प्रियसर्पिष्कः ।
उरःप्रभृतिगणः = उरस् । सर्पिष् । उपानः । पुमान् । अनड्वान् । पयः । नौः । लक्ष्मीः । दधि । मधु । शालि ।

उरःप्रभृतिगणे “लक्ष्मीः” इति एकवचनान्तं पदम् अपि विद्यते । ५.४.१५३ नद्यृतश्च इत्यनेनैव लक्ष्मीशब्दात् कप्-प्रत्यये प्राप्ते
उरःप्रभृतिगणे अस्य शब्दस्य एकवचनान्तपदस्य परिगणनस्य प्रयोजनम् —
लक्ष्मीशब्दस्य एकवचनान्तपदेन सह यदा समासः क्रियते
तदा एव कप्-प्रत्ययः भवेत् — इति ।
अतएव — येन लक्ष्मीः पूजिता सः पूजितलक्ष्मीकः । अत्र ५.४.१५१ उरःप्रभृतिभ्यः कप् इति कप्-प्रत्ययः विधीयते ।

येन लक्ष्म्यः पूजिताः सः इत्यत्र कोऽपि प्रत्ययः न भवति ।
अस्यां स्थितौ अत्र ५.४.१५४ शेषाद्विभाषा इत्यनेन विकल्पेन कप्-प्रत्ययः विधीयते, येन “पूजितलक्ष्मीः / पूजितलक्ष्मीकः” इति रूपद्वयं सिद्ध्यति । पूजितलक्ष्मी इति ईकारान्तपुंलिङ्गशब्दः । पपीशब्दसदृशानि रूपाणि ।

५.४.१५१ उरःप्रभृतिभ्यः कप् इत्यत्र — पुमाननड्वान् पयः नौः लक्ष्मीः इति विभक्त्यन्ताः पठ्यन्ते, न प्रातिपदिकानि । तत्र इदं प्रयोजनम् एकवचनान्तानाम् एव ग्रहणम् इह विज्ञायेत, द्विवचनबहुवचनान्तानां मा भूदिति । तत्र शेषाद् विभाषा ५.४.१५४ इति विकल्प एव भवतीति — काशिका इह पुमान्, अनड्वान्, पयः, नौः, लक्ष्मीः इति एकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु शेषाद्विभाषा (कौमुदी-८११) इति विकल्पेन कप् — सिद्धान्तकौमुदी । एकवचनान्तानि इति । नद्यृतश्च इति सिद्धे लक्ष्मीशब्दपाठः तु इह एवचनान्त-लक्ष्मीशब्द-अवयवक-बहुव्रीहेः एव नित्यं कप्, अन्यत्र शेषाद् इति विकल्प एव - इति नियमार्थः । तेन “अकृशमकृशलक्ष्मीश्चेतसा शंसितं सः” इति भारविप्रयोगः सिद्धः । अकृशा लक्ष्म्यो यस्येति विग्रहः । — तत्त्वबोधिनी ।