Source: TW
सुप्रजा इति शब्दः
[[२८४]]
कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल, कर्तव्यं दैवमाह्निकम् । — रामायणे बालकाण्डे १.२३.२
हे राम, पूर्वा सन्ध्या प्रवर्तते । हे नरशार्दूल, उत्तिष्ठ । दैवम् आह्निकम् कर्तव्यम् — इति अस्य सामान्यः अन्वयः ।
अस्मिन् अन्वये “कौसल्या” तथा “सुप्रजा” इति द्वौ शब्दौ न प्रयुक्तौ ।
तत्र आदौ कौसल्या = रामस्य माता — इति स्पष्टम् ।
प्रजा इत्यस्य अर्थः सन्ततिः इति अमरकोशात् ज्ञायते (प्रजा स्यात् सन्ततौ जने — इत्यमरः) ।
शोभना प्रजा = सुप्रजा इति प्रादिसमासः अपि भवितुम् अर्हति ।
परन्तु अत्र कौसल्या तथा सुप्रजा एते द्वे पदे पृथक्, प्रथमैकवचने स्थापिते स्तः । श्लोकस्य अन्यैः शब्दैः सह एतयोः सम्बन्धः न सुस्पष्टः ।
अतः अत्र एतयोः अस्मिन् अन्वये समावेशः कथं करणीयः —इति प्रश्नः ।
हे कौसल्यासुप्रजाराम ।
कौसल्यासुप्रजाः त्वम्, हे राम ।
हे कौसल्यासुप्रजा राम ।
त्वया सुप्रजाः
सुप्रजा राम इत्यत्र “सुप्रजस्” इति मूलः शब्दः, तस्य प्रथमैकवचनम् “सुप्रजाः” इति प्रयुक्तम् ।+++(5)+++
सुप्रजस् शब्दस्य सिद्धिः — शोभना प्रजा यस्याः सा सुप्रजाः ।
अत्र प्रादिबहुव्रीहिसमासः ।
एतादृशे समासे कृते ५.४.१२२ नित्यमसिच् प्रजामेधयोः इति सूत्रेण अत्र समासान्तः असिच् प्रत्ययः ।
सु + प्रजा + असिच् = सुप्रजस् ।
६.४.१४८ यस्येति च
इति आकारलोपे कृते रूपम् सिद्ध्यति ।
नञ् दुस् सु इत्येतेभ्यः परौ यौ प्रजामेधाशब्दौ तदन्ताद् बहुव्रीहेः नित्यमसिच् प्रत्ययो भवति समासान्तः — ५.४.१२२ नित्यमसिच् प्रजामेधयोः इत्यत्र काशिका ।
सुप्रजस् + सुँ + राम → सुप्रजास् + ० + राम (६.४.१४ अत्वसन्तस्य चाधातोः, ६.१.६८ हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्) → सुप्रजार् + राम (८.२.६६ ससजुषो रुः)→ सुप्रजा राम (८.३.१४ रो रि) ।
कौसल्या तथा सुप्रजाः इत्येतयोर्मध्ये अन्वयार्थम् त्वया इति शब्दस्य अध्याहारः क्रियते । हे राम, कौसल्या त्वया सुप्रजाः (अभवत्) — इति अत्र अन्वयः । अतः सम्पूर्णश्लोकस्य अन्वयः —
“हे राम, कौसल्या त्वया सुप्रजाः । हे राम, पूर्वा सन्ध्या प्रवर्तते । हे नरशार्दूल, उत्तिष्ठ । दैवम् आह्निकम् कर्तव्यम्”
— इति ।
सुप्रजा राम इत्यत्र “सुप्रजस्” इति मूलः शब्दः, तस्य प्रथमैकवचनम् “सुप्रजाः” इति प्रयुक्तम् ।
कौसल्यायाः सुप्रजाः
सुप्रजस् शब्दस्य सिद्धिः — शोभना प्रजा सुप्रजाः । अत्र प्रादितत्पुरुषसमासः । प्रादितत्पुरुषे कृते वस्तुतः “सुप्रजा” इति आकारान्तः शब्दः सिद्ध्यति, न हि सुप्रजस् इति सकारान्तः । परन्तु अत्र कथञ्चित् आर्षत्वात् “असिच्” इति समासान्तप्रत्ययः संस्थाप्यते ।+++(5)+++ सु + प्रजा + असिच् = सुप्रजस् । ६.४.१४८ यस्येति च इति आकारलोपः ।
कौसल्यायाः सुप्रजाः = कौसल्यासुप्रजाः इति षष्ठीतत्पुरुषसमासः । इदं रामस्य विशेषणम् । परन्तु श्लोके अयं शब्दः प्रथमैकवचने, न हि सम्बोधनैकवचने ।
कौसल्यासुप्रजस् + सुँ + राम → कौसल्यासुप्रजास् + ० + राम (६.४.१४ अत्वसन्तस्य चाधातोः, ६.१.६८ हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्) → कौसल्यासुप्रजार् + राम (८.२.६६ ससजुषो रुः)→ कौसल्यासुप्रजा राम (८.३.१४ रो रि) ।
अतः सम्पूर्णः अन्वयः — “कौसल्यासुप्रजाः (त्वम्) राम, पूर्वा सन्ध्या प्रवर्तते । हे नरशार्दूल, उत्तिष्ठ । दैवम् आह्निकम् कर्तव्यम्” — इति ।
कौसल्यासुप्रजा इति समस्तपदम् स्वीकर्तव्यम् । शोभना प्रजा सुप्रजा । कौसल्यायाः सुप्रजा कौसल्यासुप्रजा ।
कौसल्यासुप्रजा इति राम इत्यस्य विशेषणम् । “हे कौसल्यासुप्रजा राम, पूर्वा सन्ध्या प्रवर्तते” इति अन्वयः ।
अत्र राम इति सम्बोधनैकवचने अस्ति,
अतः कौसल्यासुप्रजा इति शब्दः अपि सम्बोधनैकवचनस्य एव रूपम् ।
तत् कथमिति चेत्, ७.१.३९ सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः इति सूत्रेण वैदिकरूपेषु सुप्-प्रत्ययानाम् आकारादेशः कृतः दृश्यते ।
यद्यपि रामायणम् वेदः न, तथापि अस्य आर्षत्वं स्वीकृत्य अस्य सूत्रस्य प्रयोगेण +++(4)+++
कौसल्यासुप्रजा + सुँ (सम्बुद्धिः) → कौसल्यासुप्रजा + आ → कौसल्यासुप्रजा इति सिद्ध्यति ।
अतः सम्पूर्णः अन्वयः — “हे कौसल्यासुप्रजा राम, पूर्वा सन्ध्या प्रवर्तते । हे नरशार्दूल, उत्तिष्ठ । दैवम् आह्निकम् कर्तव्यम्” — इति ।
कौसल्यासुप्रजाराम
कौसल्यासुप्रजाराम इति त्रिपदघटितम् एकम् समस्तपदम् स्वीक्रियते । अस्य प्रथमैकवचनम् कौसल्यासुप्रजारामः इति, तथा च सम्बोधनैकवचनम् कौसल्यासुप्रजाराम इति ।
कौसल्यासुप्रजाराम इत्यस्य विग्रहः द्वाभ्यां प्रकाराभ्यां सम्भवति — शोभना प्रजा = सुप्रजा इति प्रादितत्पुरुषः । ततः कौसल्यायाः सुप्रजा = कौसल्यासुप्रजा इति षष्ठीतत्पुरुषः । ततः कौसल्यासुप्रजा च असौ रामः च / कौसल्यासुप्रजारूपः रामः = कौसल्यासुप्रजारामः इति कर्मधारयः ।
शोभना प्रजा = सुप्रजा इति प्रादितत्पुरुषः । ततः सुप्रजा च असौ रामश्च / सुप्रजारूपः रामः = सुप्रजारामः इति कर्मधारयः । ततः कौसल्यायाः सुप्रजारामः = कौसल्यासुप्रजारामः इति षष्ठीतत्पुरुषः ।
अतः सम्पूर्णः अन्वयः — “हे कौसल्यासुप्रजाराम, पूर्वा सन्ध्या प्रवर्तते । हे नरशार्दूल, उत्तिष्ठ । दैवम् आह्निकम् कर्तव्यम्” — इति ।