Source: TW
वीप्सा
वीप्सा (= प्रत्येकम्, multiplicity) इति अर्थस्य निर्देशार्थम् एक इति सर्वनामशब्दस्य ८.१.४ नित्यवीप्सयोः इति सूत्रेण द्वित्वं भवति ।
सुँलोपपुंवद्भावौ
द्विरुक्तः एकशब्दः ८.१.९ एकं बहुव्रीहिवत् इति सूत्रेण बहुव्रीहिसमाससदृशं कार्यं करोति । ८.१.९ एकं बहुव्रीहिवत् —द्विरुक्तः एकशब्दः बहुव्रीहिवत् स्यात् । तेन सुँलोपपुंवद्भावौ ।
एकम् एकम् = एकैकम् । एकेन एकेन = एकैकेन । एकस्मै एकस्मै = एकैकस्मै । एकस्य एकस्य = एकैकस्य ।
स्त्रीलिङ्गे पूर्वपदस्य पुंवद्भावः भवति, उत्तरपदात् टाप्-प्रत्ययः विधीयते । एकया एकया = एकैकया । एकस्याम् एकस्याम् = एकैकस्याम् ।
केचन प्रयोगाः
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकम् अक्षरं पुंसां महापातकनाशनम् ॥ — रामरक्षास्त्रोत्रम् । यौवनं धनसम्पत्तिः प्रभुत्वम् अविवेकिता । एकैकम् अप्यनर्थाय, किमु यत्र चतुष्टयम् ॥ — हितोपदेश । एकैकम् अत्र दिवसे दिवसे मदीयम् । नामाक्षरं गणय गच्छति यावदन्तम् ॥ — अभिज्ञानशाकुन्तलम् । एकैकया मृदा पादौ प्रक्षाल्य तु शुचिर्भवेत् ॥ - आह्निकचन्द्रिका ।
न सर्वनामशब्दता
सर्वादिगणस्य यदा बहुव्रीहिसमासः क्रियते,
तदा १.१.२९ न बहुव्रीहौ इत्यनेन
समस्तपदस्य सर्वनामसंज्ञा निषिध्यते,
किञ्च विग्रहवाक्ये प्रयुक्तयोः शब्दयोः अपि सर्वनामसंज्ञा निषिध्यते ।
यथा, प्रियाः विश्वाः येषां ते प्रियविश्वाः ।
एवमेव, एकाय एकाय = एकैकाय इति भवेत्, न हि एकस्मै एकस्मै = एकैकस्मै इति । तथापि, प्रयोगे तु एकैकस्मै, एकैकस्मात् इत्यादयः एव शब्दाः दृश्यन्ते ।
तर्हि एतेषां साधुत्वं कथम् इति चेत् — ८.१.९ एकं बहुव्रीहिवत् इत्यत्र काशिका —
सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्ताः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते।
तेन अतिदेशिके बहुव्रीहौ न भवन्ति।
एकैकस्मै।
न बहुव्रीहौ १.१.२९ इति प्रतिषेधो न भवति ।
बहुव्रीहिरेव यो बहुव्रीहिः इति विज्ञानात्।
८.१.९ एकं बहुव्रीहिवत् इत्यत्र कौमुदी —
१.१.२९ न बहुव्रीहौ इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुव्रीहौ सर्वनामतास्त्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकं न तु बहुव्रीहावितीहातिदेशशङ्कैव नास्ति । एकैकस्मै देहि ।
एकैकशः
एकैक इत्यस्यैव अर्थे, इत्युक्ते, वीप्सायाम् (प्रत्येकम् इत्यस्मिन् अर्थे) एकैकशः इति शब्दः साहित्ये बहुत्र प्रयुक्तः दृश्यते —
एकैकशः ददाति — इति भाष्ये प्रयोगः ।
एकैकशो युगानां तु क्रमशस्तान् निबोधत — मनुस्मृतिः ।
एवम् एकैकशो वाली विव्याधाथ स चासकृत् — रामायणम् ।
एकैकशश्च प्रतिनामग्रहमावेद्यमाना बलाहकेन — कादम्बरी ।
साधुता
परन्तु, एकैकशः इति शब्दस्य साधुत्वज्ञापनं क्लेशाय — इति केचन वैयाकरणाः वदन्ति । तेषाम् आशयः अयम् — एकैक इति शब्दे द्वित्वम् वीप्सार्थे अस्ति ।
तत्र पुनः वीप्सायाम् एव ५.४.४३ संख्यैकवचनाच्च वीप्सायाम् इति सूत्रेण शस् इति तद्धितप्रत्ययं विधीयते चेत् “एकैकशः” इति शब्दः जायते ।
परन्तु, “उक्तार्थानाम् अप्रयोगः” इति न्यायेन
एकवारं वीप्सायां द्वित्वे कृते
पुनः तस्यैव अर्थस्य निर्देशार्थम् शस्-प्रत्यययोजनम् अनुचितम् ।
अतः केवलं द्वित्वं कृत्वा एकैक इति प्रयोक्तव्यम्,
अथ वा द्वित्वं विना,
केवलं शस्-प्रत्यये कृते “एकशः” इति शब्दप्रयोगः कर्तव्यः ,
यथा सूत्रकारः — तान्येकवचनद्विवचनबहुवचनान्येकशः इति ।
समाधान-प्रयासः
परन्तु, एकैकशः इति शब्दस्य साहित्ये अनेके प्रयोगाः सन्ति, अतः अस्य शब्दस्य साधुत्वं कथञ्चित् समाधेयम् । तदर्थं भिन्नेषु व्याख्यानेषु भिन्नाः समर्थनप्रकाराः निर्दिष्टाः लभ्यन्ते —
“यत्तु प्राचा एकैकशः इति उक्तम्, तद् अयुक्तम्; शसा एव वीप्सायाः उक्तत्वेन द्विर्वचन-अयोगात्” … एतच्च मनोरमाग्रन्थानुरोधेन उक्तम् । अन्ये तु, एकैकम् एव एकैकशः इति स्वार्थे शस्, न तु अत्र वीप्सायाम् । न च स्वार्थे यः शस् सः आकरग्रन्थात् न अवगम्यते इति वाच्यम्, “एकां कपिलाम् एकैकशः सहस्रकृत्वः दत्त्वा” इति भाष्यात्, शसन्तस्य प्रत्येकम् इत्यर्थकत्वेन, कैयटेन व्याख्यानात् च स्वार्थिकस्य अपि शसः अवगम्यमानत्वात् । ततः च, “एकैकशः इति प्राचा उक्तम् अयुक्तम्” इति यद् उक्तम्, तदेव अयुक्तम् इत्याहुः । — १.४.१०२ तान्येकवचनद्विवचनबहुवचनान्येकशः इत्यत्र तत्त्वबोधिनी ।
एकैकशः कारकरूपप्रत्येके अव्ययम् — इति वाचस्पत्यम् । एकैकशब्दात् कारकार्थे शस्-प्रत्ययः इत्याशयः ।
एकैकशो देहि इति भाष्यं सर्वस्य द्वे इत्यत्र । तान्येक… इति निर्देशात् अद्वित्वम्, भाष्यप्रामाण्याद् द्वित्वं च — इति दुर्घटवृत्तिः । “एकशः” तथा “एकैकशः” उभयोरपि साधुत्वम् अस्ति इति तस्य आशयः ।
द्योतकसमुच्चयस्य अन्यत्र दृष्टत्वात् एकशब्दात् संख्यार्थे शस्-प्रत्ययः भवति — इति नागेशः । व्याकरणे कुत्रचित् एकः एव अर्थः द्विवारं द्योतितः दृश्यते । यथा, “गार्ग्यायणी” इत्यत्र ष्फ तथा ङीष् - द्वौ अपि स्त्रीत्वम् एव द्योतयतः । एवमेव, वीप्सार्थः अपि द्वित्वेन, शस्-प्रत्ययेन च द्योत्यते चेदपि न काऽपि आपत्तिः - इत्याशयः ।