Source: TW
पुंवद्भावः
६.३.३४ स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु —
यस्मिन् बहुव्रीहिसमासे
पूर्वोत्तरपदयोः सामानाधिकरण्यम् (समाना विभक्तिः) वर्तते,
तत्र पूर्वपदं स्त्रीलिङ्गे अस्ति चेत्
तस्य पुंवद्भावः भवति ।
रूपवती भार्या यस्य सः = रूपवद्भार्यः । चित्राः गावः यस्य सः = चित्रगुः ।
अपवादः
परन्तु, उत्तरपदम् “प्रियादि”गणस्य शब्दः अस्ति चेत् पूर्वपदस्य एतादृशः पुंवद्भावः न भवति ।
प्रियादिगणस्य शब्दानांं विषये अयं पुंवद्भावः न भवति । प्रक्रियासर्वस्वम् इत्यस्मिन् ग्रन्थे अयं प्रियादिगणः कारिकारूपेण दीयते —
प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा समा । सचिवा चपला बाला तनया दुहिता तथा । शान्ता कान्ता कामना स्वा वामा भक्तिः प्रियादयः ।
कल्याणी प्रिया यस्य सः = कल्याणीप्रियः । लक्ष्मीः कान्ता यस्य सः = लक्ष्मीकान्तः ।
भक्तिः
“भक्तिः” इति शब्दः प्रियादिगणे अस्ति, अतः “दृढा भक्तिः यस्य सः” इत्यत्र दृढाभक्तिः इत्येव रूपं भवेत्।
कविप्रयोगः
परन्तु, कालिदासेन रघुवंशे १२.१९ “दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः” इत्यत्र दृढभक्तिः इति पुंवद्भावं कृत्वा प्रयोगः कृतः अस्ति । अस्य शब्दस्य साधुत्वं कथं वक्तव्यम् — इति प्रश्नः ।
सामान्ये नपुंसकम्
दृढभक्तिः इति शब्दस्य विग्रहः “दृढं भक्तिः यस्य सः दृढभक्तिः” इति दीयते ।
इत्युक्ते, भक्तिः इत्यस्य विशेषणत्वेन प्रयुक्तः दृढ इति शब्दः
नपुंसकलिङ्गे एव प्रयुज्यते,
न ही स्त्रीलिङ्गे ।
अतः समासे कृते तत्र पुंवद्भावस्य न कश्चन विषयः उदेति ।
अत्र दृढ-शब्दस्य नपुंसकत्वं कथं समाधेयम् इति चेत्,
“सामान्ये नपुंसकम्” इति सिद्धान्तः स्वीक्रियते ।
शब्दानां लिङ्गस्य अविवक्षां कृत्वा
सर्वे शब्दाः नपुंसकलिङ्गे प्रयोक्तुं शक्यन्ते
इति अस्य अर्थः ।
अतः अत्रापि दृढशब्दस्य लिङ्ग-अविवक्षायां नपुंसकलिङ्गप्रयोगः न दुष्यति इति बहूनां वैयाकरणानां मतम् ।
दृढभक्तिः इत्येवमादिषु स्त्रीपूर्वपदस्य अविवक्षित्वात् सिद्धम् — इति ६.३.३४ स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्… इत्यत्र काशिका ।
एवमेव “सामान्ये नपुंसकम् । दृढं भक्तिः यस्य सः दृढभक्तिः । स्त्रीत्वविवक्षायां तु दृढाभक्तिः” — इति ७.४.१४ न कपि इत्यत्र सिद्धान्तकौमुदी ।
तत्रैव “दृढशब्दस्य अदार्ढ्यनिवृत्तिमात्रपरत्वेन प्रयोगात् न लिङ्गविशेषविवक्षा” — इति तत्त्वबोधिनी ।
उद्देश्य-विधेय-भावाश्रयः
दृढशब्दस्य प्रयोगः केवलम् “दार्ढ्यभावस्य ग्राहकः” अस्मिन् अर्थे कृत्वा अत्र लिङ्गविशेषस्य अविवक्षा क्रियते,
अतः सामान्ये नपुंसकम् इति नपुंसकत्वं सिद्ध्यति इत्याशयः ।
अस्मिन्नेव सन्दर्भे —
पदसंस्कारपक्षे सामान्यपरत्वम् आश्रित्य
दृढशब्दो नपुंसकलिङ्गो व्युत्पाद्यः,
ततः तस्य भक्तिशब्देन अन्वये पूर्वप्रवृत्तं नपुंसकत्वं न अपैति,
लिङ्गविशेषस्य अविवक्षितत्वात्, वेदाः प्रमाणमितिवत् ।
अत्र चार्थे पस्पशाह्निकभाष्ये
“शक्यं च अनेन आमांसादिभिरपि क्षुत्प्रतिहन्तुम्” इति प्रयोगो लिङ्गम् — इति बालमनोरमा ।