सङ्ख्यार्थे तत्पुरुषे
अनेकः = न एकः । २.२.६ नञ् इति नञ्-तत्पुरुषसमासः । अत्र “नञ्” शब्दस्य शाब्दबोधः “आरोपितत्वम्” (त्यक्तत्वम्) इति । न एकः = आरोपितैकत्ववान् = येन एकत्वं त्यक्तम् सः — इत्यर्थः ।
एकवचन-प्रयोगः
तत्पुरुषसमासे उत्तरपदस्य प्राधान्यं वर्तते । अतः, “अनेक” इत्यत्रापि उत्तरपदप्रधानत्वात् “एक” इति नित्यम् एकत्ववाचिनः शब्दस्यैव प्राधान्यम् । इत्युक्ते, यद्यपि “अनेक” इति शब्दः तात्पर्यरूपेण बहुत्वं दर्शयति, तथापि शाब्दबोधम् अनुसृत्य सः एकवचने एव भवेत् । अत एव, तत्पुरुषसमासे उपयुक्तः “अनेक” शब्दः एकवचने एव प्रयोक्तव्यः ।
सर्वनामसंज्ञा
अस्य सर्वनामसंज्ञा अवश्यं विद्यते, अतः अनेकः जनाः, अनेकस्मिन् गृहेषु, अनेकस्मै ब्राह्मणेभ्यः, अनेकस्मात् वृक्षेभ्यः — आदयः साधुप्रयोगाः । अस्मिन्नेव सन्दर्भे — “एवं च अनेके इति बहुवचनम् असाधु एव बोध्यम्” इति उद्द्योते नागेशः ।
सारः
सङ्ख्यात्वे विद्यमानस्य अनेकशब्दस्य तत्पुरुषसमासे सर्वनामता, नित्यम् एकवचनम् । अतः अनेकः जनाः इति साधु ।
असङ्ख्यार्थे
वस्तुतः, “एक”शब्दस्य सङ्ख्यावाचकम् अर्थं विहाय केचन अन्ये अर्थाः अपि सन्ति ।
एकोऽन्यार्थे प्रधाने च,
प्रथमे केवले तथा ।
साधारणे समानेऽल्पे,
सङ्ख्यायाञ्च प्रयुज्यते ॥
— इति अमरः ।
अन्यः / प्रधानः / केवलः / साधारणः / समानः / अल्पः आदिषु अर्थेषु अपि एकशब्दः प्रयुज्यते इत्याशयः । एतेषु अर्थेषु तु एकशब्दस्य त्रिषु अपि वचनेषु रूपाणि सम्भवन्ति । अतएव एतेषु अर्थेषु अनेक-शब्दस्य अपि त्रिषु लिङ्गेषु रूपाणि वर्तन्ते ।
यथा, अप्रधानाः छात्राः = अनेके छात्राः इति ।
बहुव्रीहौ
अनेकः = न विद्यते एकः अस्मिन् । “२.२.२४ अनेकमन्यपदार्थे” इत्यत्र पाठिते “नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः” इति वार्त्तिकेन नञ्-बहुव्रीहिसमासः ।
यथा = अनेकः गणः = सः गणः यस्मिन् एकः (एव) न वर्तते (अधिकाः वर्तन्ते इति) ।
- बहुव्रीहिसमासे अन्यपदार्थस्य प्राधान्यं वर्तते । अतः अत्र “अनेक”शब्दस्य द्वित्वं बहुत्वं वा अवश्यम् सम्भवति ।
- परन्तु तत्र “अनेक”शब्दस्य सर्वनामसंज्ञा न भवति, अतः अस्य रूपाणि “अनेकः अनेकौ अनेकाः” इति देवशब्दसदृशानि भवन्ति । यथा, अनेकाः गणाः = न विद्यते एकः एतेषु इति = ते गणाः येषु एकाधिकाः अवयवाः वर्तन्ते इत्याशयः ।
एतादृशस्य बहुव्रीहि-घटितस्य “अनेक”शब्दस्य प्रयोगः वस्तुतः विरलः ।
आकाशमेकं हि यथा घटादिषु पृथग्भवेत् तथात्मैकोऽप्यनेकश्च
इति याज्ञवल्क्यस्मृतौ प्रयोगः दृश्यते ।
एक-शब्दस्य सङ्ख्यावाचकम् अर्थं विहाय अन्येषु अर्थेषु त्रिषु वचनेषु रूपाणि भवन्ति, अतः तेषु अर्थेषु बहुव्रीहिसमासेन निर्मितस्य “अनेक”शब्दस्य अपि त्रिषु वचनेषु रूपाणि भवन्ति ।
सारः
बहुव्रीहिसमासे तु सर्वनामसंज्ञायाः अभावः, त्रिषु वचनेषु रूपाणि सम्भवन्ति । अतः अनेकाः जनाः इति साधु ।
अनेके
परन्तु, बहुत्र “अनेके” इति शब्दः तत्पुरुषसमासे बहुवचने प्रयुक्तः दृश्यते । यथा,
पतन्त्य् अनेके
जलधेर् इवोर्मयः (माघः),
अनेके सेवन्ते भवदधिकगीर्वाण-निवहान् (श्यामास्तोत्रम्),
अनेकेषां नानास्थाने (न्यासः)
इत्यादीनि उदाहरणानि । लौकिकभाषायाम् अपि “अनेके जनाः” इति प्रयोगः प्राचुर्येण दृश्यते ।
एकशेषता
एकशेषत्वम् आश्रित्य साधुता वक्तव्या —
इति शब्दकौस्तुभे । इत्युक्ते, “अनेकश्च अनेकश्च अनेकश्च” इति विग्रहवाक्यं स्वीकृत्य बहुवचनं स्वीकर्तव्यम् ।
पदार्थस्वरूपावलम्बनम्
शाब्दार्थस्य आरोपितैकत्वेऽपि, पदार्थस्वरूपं तु अनियतसङ्ख्यावत्वम् एव इत्यतः तत् स्वरूपम् अवलम्ब्य द्वित्वबहुत्वादयः साधनीयाः — इति द्वितीयम् समाधानम् । “अनेक” इति पदस्य “न एकम्” इति स्वरूपसामर्थ्याद् एव तस्य बहुत्वम् इति आशयः ।
अस्मिन् सन्दर्भे दुर्घटवृत्तौ शरणदेवः मैत्रेयरक्षितस्य मतम् निर्दिशति —
जहद्-धर्मत्वात् शाब्द-प्रवृत्तेः बहुवचनम् ।
शब्दो हि क्वचित् क्वचित् स्वधर्मं हित्वा धर्मान्तरम् उपादत्ते,
यथा “अमित्रः” इत्यत्र मित्रशब्दः ।
धर्मश्च लिङ्गरूपः वचनरूपः वा स्याद् ।
अध्यारोपितबहुत्वम्
दुर्घटवृत्तौ अपरम् अपि समाधानम् उक्तम् अस्ति —
अध्यारोपित-बहुत्वात् बहुवचनम् ।
बहुत्वधर्मस्य आरोपणं कृत्वा बहुवचनम् स्वीकर्तव्यम् — इत्याशयः ।