अधीन

समासे

“अधीन” इति शब्दः बहुत्र समासेषु दृश्यते — ईश्वराधीन, राजाधीन, दैवाधीन - आदीनि उदाहरणानि । एतानि सप्तमीतत्पुरुषसमासेन निर्मितानि प्रातिपदिकानि । “ईश्वरे अधि (ईश्वरस्य नियन्त्रणे अस्ति) सः ईश्वराधीनः” — इति विग्रहः । तत्र प्रक्रिया इत्थम् —

  • ईश्वर / राजन् / दैव - एतेषां योगे आदौ “१.४.९७ अधिरीश्वरे” इति सूत्रेण “अधि” इति शब्दः विधीयते ।
  • “अधि”शब्दस्य योगे “२.३.९ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी” इति सूत्रेण सप्तमी विभक्तिः भवति । अतः “ईश्वरे अधि” इति लिख्यते ।
  • “२.१.४० सप्तमी शौण्डैः” इत्यत्र शौण्डादिगणे “अधि”शब्दस्य समावेशात् सप्तमीतत्पुरुषसमासः भवति ।
  • सप्तमीतत्पुरुषसमासे कृते “५.४.७ अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः” इति सूत्रेण तत्र समासान्तः तद्धितसंज्ञकः ख-प्रत्ययः भवति, येन “ईश्वर + अधि + ख” इति जायते ।
  • अग्रे, “७.१.२ आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्” इति सूत्रेण ख-इत्यस्य ईन-आदेशः भवति । अतः “ईश्वर + अधि + ईन” इति जायते । ततः ६.४.१४८ यस्येति च इत्यनेन धकारोत्तर-इकारस्य लोपे कृते, ततश्च सन्धिकार्यं कृत्वा ईश्वराधीन इति शब्दः सिद्ध्यति ।

अधीनः

“अधीन” इति शब्दः केवलं सप्तमीतत्पुरुषसमासस्य अन्ते ख-प्रत्यये कृते एव सिद्ध्यति, तर्हि केवलः अधीनशब्दप्रयोगः साधु वा — इति प्रश्ने प्राप्ते; “१.१.५७ अचः परस्मिन् पूर्वविधौ” इत्यत्र भाष्ये “वक्तर्यधीन” इत्यत्र “वक्तरि +अधीनः” इति रूपेण केवल-अधीनशब्दः (समासं विना) प्रयुक्तः दृश्यते इति कारणात् वैयाकरणैः अस्य साधुत्वम् अवश्यं स्वीक्रियते, परन्तु अयं शब्दः अव्युत्पन्नः इत्येव तेषाम् अत्र निर्णयः । अत एव तस्मिन् सूत्रे

अध्युत्तरपदात् खविधानात् अव्युत्पन्नः आयत्तार्थवृत्तिः अधीनशब्दः — इति प्रदीपे कैयटः ।

परन्तु कोशेषु “अधीन” शब्दस्य अपि व्युत्पत्तिः दर्श्यते । तत्र “इन” इति शब्दः “प्रभुः” अस्मिन् अर्थे स्वीकृत्य “इनम् अधिगतः (प्रभुम् शरणागतः)” इति वृत्तौ अत्यादयः क्रान्ताद्यर्थे द्वितीयया (वार्त्तिकम् २.२.१८) इत्यनेन तत्पुरुषसमासं कृत्वा अत्र “अधीन” इति शब्दः साध्यते । अमरकोशस्य सुधाव्याख्याने तु “अधि” शब्दस्य “उपरि” इति अर्थं स्वीकृत्य “अधि (उपरि) अस्य इनः अस्ति सः” इति अन्या व्युत्पत्तिः अपि दत्ता अस्ति ।

“अधीन” इति शब्दः द्रव्यार्थे प्रयुज्यते । इत्युक्ते, यस्मिन् पदार्थे स्वामित्वम् अस्ति, तस्य विशेषणरूपेण अस्य शब्दस्य प्रयोगः भवति । “भूमिः मम अधीना” इति वाक्यम् साधु । अत्र षष्ठीतत्पुरुषसमासं कृत्वा “भूमिः मदधीना” इत्यपि साधु ।

परन्तु “भूमिः मम अधीने / भूमिः मदधीने” इति असाधु । अधीन-शब्दस्य प्रयोगः एतादृशः (गुणस्वरूपेण) न भवति । तादृशः प्रयोगः करणीयः चेत् “भूमिः मम आधीन्ये वर्तते” / “भूमौ मम आधीन्यं वर्तते” इति आधीन्यशब्दस्य प्रयोगः करणीयः । अधीनस्य भावः आधीन्यम् इति आधिन्यशब्दः सिद्ध्यति ।