Source: TW
गतिसंज्ञकः अस्तम् इति शब्दः
२४३
उपसर्गभिन्नाः केचन शब्दाः भाषायाम् उपसर्गसदृशम् एव (धातोः प्राक्) प्रयुक्ताः दृश्यन्ते ।
एतेषाम् गतिः इति संज्ञा दत्ता अस्ति ।
यथा — नमस्करोति इत्यत्र नमस् । अलङ्करोति इत्यत्र अलम् । तिरोभवति इत्यत्र तिरस् ।
एवमेव अस्तम् इति मकारान्तम् अव्ययम् अपि १.४.६८ अस्तं च इत्यनेन गतिसंज्ञकं भवति ।
अस्य प्रयोगः सामान्यरूपेण गम्-धातोः प्राक् कृतः दृश्यते ।
यथा — अस्तङ्गच्छति; अस्तङ्गतः, अस्तङ्गतिः ।
सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने — अमरकोशे अव्ययवर्गे ३.४.१७
तेन अत्र निर्देशाद् एव अस्तं शब्दः मकारान्तः अव्ययम् अस्ति इति ज्ञायते — इति माधवीयधातुवृत्तिः ।
गतिसंज्ञकशब्दानाम् उपस्थितौ क्त्वा-प्रत्ययस्य ल्यप्-आदेशः भवति ।
अस्तम् + गम् + क्त्वा → अस्तम् + गम् + ल्यप् → अस्तङ्गत्य ।
गतिसंज्ञकशब्दानाम् पदसंज्ञा अपि विद्यते । अतः “अस्तं गच्छति” इत्यत्र वस्तुतः पदद्वयम् । परन्तु तयोर्मध्ये तृतीयं पदं नैव प्रवेष्टुम् अर्हति । अतश्च, अस्तं सूर्यः गच्छति इति अनुचितम् । सूर्यः अस्तं गच्छति इत्येव वक्तव्यम् ।
उदेति सविता रक्तः रक्तश्चास्तमये तथा इत्यत्र “अस्तमय” इति शब्दे अस्तम् इति गतिसंज्ञकः शब्दः —
अस्तम् + इण् + (भावे) अच् → अस्तम् + अय → अस्तमय । अस्तङ्गमनम् इत्यर्थः ।
अत्र यदि अस्त इति अकारान्तशब्दः प्रयोक्तव्यः, तर्हि “अस्तमय” इति रूपं नैव सम्भवति ।
तत्र व्यस्तप्रयोगे “अस्तस्य अय”, तथा च समस्तप्रयोगे “अस्ताय” इति रूपं भवेत् ।
तिरोधानं च यत्रैति तदेवास्तमनं रवेः (इति ज्योतिषे)
अत्रापि “अस्तमन” इति शब्दे अपि अस्तम् इति गतिसंज्ञकः शब्दः —
अस्तम् + अन् + (भावे) अप् → अस्तमन । अस्तङ्गमनम् इत्येव अर्थः ।
राज्यमस्तमितेश्वरम् (रघुवंशे) इत्यत्र विद्यमानः अस्तम् इति शब्दः अपि गतिसंज्ञकः एव । “तिरोधानं गतः” इति अस्य अर्थः ।
अस्तगमन इति शब्दे तु “अस्तम्” इति मकारान्तः शब्दः न विद्यते । अत्र मान्तम् अव्ययम् नास्ति, अपितु “अस्त” इति अकारान्तपुंलिङ्गशब्दः षष्ठीतत्पुरुषसमासे विद्यते । अस्तस्य गमनम् = अस्तगमनम् ।