Source: TW
विस्तारः (द्रष्टुं नोद्यम्)
Patañjali’s Vyākaraṇa-Mahābhāṣya , Vol. I., Nirnaya Sāgara Press edited by Paṇḍita Sivadatta Kuddāla [alias: Dādhnātha ], Bombay, 1917, p. 454, editor’s note 7
अदुह्वह्यर्थमिति ॥
इदं सर्वं तदैव सम्भवति
यदा वकारस्य दन्त्यत्वं भवेत् ।
परन्तु तदेव न अन्तस्थावकारस्याप्य् उच्चारणे -
दन्त-व्यापारस्याप्रतीतेः केवलम् ओष्ठ-संयोग-रूप-व्यापारस्यैवानुभव-सिद्धत्वेन दन्तस्थानकत्वस्य कैरपि प्रातिशाख्यकृद्भिर् अनुक्तत्वाच्च ॥
तथाहि “ओष्ठे व-ओᳶप-प ऊ’ इति ऋक्तन्त्रे शाकटायनः ।
तथैव शुक्लयजुःप्रातिशाख्ये कात्यायनः-
‘उवोपोपध्माः ओष्ठे’ इति
सप्तम्या निर्दिष्टस्यैव स्थानत्वम् अङ्गीचकार ।
एवं तैत्तिरीय-प्रातिशाख्य-कृद् अपि ‘रेफे जिह्वामूलेन प्रत्यादन्तमूलेभ्यः’ इति सूत्रे तृतीयया करणत्वम् ,
पञ्चम्या स्थानत्वम् इव ‘ओष्ठान्ताभ्यां दन्तैर् वकारे’ इति सूत्रेऽपि
तृतीयया दन्तानां करणत्वं पञ्चम्यौष्ठान्तयोरेव स्थानत्वं दर्शितवान् ॥
कात्यायनस् तु स्थानप्रकरणे " उवोपोपध्मा ओष्ठे” (१।७० ) इति सूत्रं, करणप्रकरणे ‘वो दन्ताः ’ ( १८१) इति सूत्रं रचयन् स्फुटमेव दन्तानां करणत्वम् एव सूचितवान् ।
यदि च तृतीया-निर्दिष्टानां करणानाम् अपि स्थानत्वम् अङ्गीक्रियेत तदा " तालुस्थाना मध्येन" ( १७९) इत्यादिसूत्रेषु तृतीया-दर्शित-संसर्ग-मात्राणां जिह्वामध्यादीनामपि स्थानत्वापत्तिर् दुर्वारैव स्याद् इति तैत्तिरीयप्रातिशाख्ये सप्तमी-निर्दिष्टानाम् एव स्थानत्वम् । तृतीया-निर्दिष्टानां तु संसर्ग-मात्र-सहाय-करणत्वम् एव मन्तव्यम् इति न दन्तस्थानत्वं वकारस्य ॥
अत एव याज्ञवल्क्यशिक्षायाम् अपि “अष्टावोष्ठ्या उवर्ण-वकारोपध्मानीय-पवर्गा इति” इति उवर्ण-समान-स्थानत्वम् एव वकारस्य दर्शितम् , न तु " अष्टौ दन्त्या ऌवर्णलकारसकारतवर्गा इति" सूत्रे वकारस्य दन्तस्थानत्वम् ॥
अत एव “ उवर्णोऽथ पवर्गश्च ओ औकारौ तथा च वः । ओष्ठ्या एते स्मृता वर्णा उपध्मानीय एव च ॥ वकार ओष्ठसंभूतो दन्ताग्रकरणः स्मृतः” इति वर्णरत्नप्रदीपिका-शिक्षायां वकारस्य दन्ताग्र-करणकत्वम् ओष्ठमात्र-स्थानकत्वम् एवोक्तम् ।
अत एव संप्रसारणेषु वकारस्थाने ऌकारणाय भगवता कोऽपि यत्नो न कृतः । वकारस्य दन्तस्थानत्वे तु दन्तस्थान-साम्येन वकारस्य स्थाने ऌकारापत्तिर् दुर्वारा स्यात् । तद्वारणाय कण्ठ-स्थान-साम्येन प्राप्तस्याकारस्य वारणाय ‘एच इग् घ्रत्वादेशे’ इति सूत्र-करण-यत्नम् इव यत्नं कुर्याद् एवेति, तद् अकरणेन स्फुटमेव प्रतीयते- ‘न वकारस्य दन्ताः स्थानानि ’ इति ॥ प्राचीनतर-वङ्गपुस्तकेषूपलभ्यमानः ‘दन्तोष्ठ्यो वः स्मृतो बुधैः’ इति शिक्षापाठस् तु ‘दन्त-संनिकृष्टे ओष्ठे भवः’ इति विग्रहे ‘अयःशूल-’ इति सत्रभाष्यप्रयुक्तस्य ‘शिवभागवतः’ इत्यस्य ‘शिवो भगवान् भक्तिर् अस्य’ इति विग्रहे कर्मधारयोत्तरम् अपि भगवच्-छद्वात् प्रत्यय इव ओष्ठशब्दादेः शरीरावयवत्वाद् यति-सिद्धः दन्तानां स्थानत्वं नैव दर्शयति ॥
‘अनुपसर्जनात्’ इति सूत्रभाष्ये — ‘विशिष्टेनैकार्थीभावे ऽवयवेनापि सोस्त्य् एव’ इत्य् एतद्-आशयकस्य ’ अवयवाद् उत्पत्तिः प्राप्नोति’ इति भाष्यस्य प्रामाण्येन ‘दन्तसंनिकृष्टाव् ओष्ठौ दन्तोष्ठौ तयोर् भवो दन्तोष्ठ्यः’ इति सिद्ध-दन्तसंनिकृष्ट-पदोपादानं पवर्णोच्चारण इव वकारोच्चारणे नैव बहिर्-देशावच्छेदेनौष्ठ्योः स्थानत्वम्, किंतु दन्तसंनिकृष्टयोर् आभ्यन्तरयोर् एवेति दर्शयितुम् एवेति न दन्तस्थानत्वं वकारस्येति सिद्धम् ॥
एवं च वहिप्रत्यये क्सस्य लुग् नैव ऋषीणां संमत इति वहिप्रत्यये क्सस्य लुकं साधयन् प्रदीपकारस्तु पाश्चात्यानां धीमतां बुद्धिपरीक्षणायेव प्रवृतः ‘स्वरूप-व्याक्रियैव पराक्रिया’ इति दर्शयन् प्राचां ग्रन्थम् अनुसृतवान् इति न तस्यात्राग्रहः ।
अत एव स्थानत्रयेऽपि असाधारणम् ’ अगुह्वहि’ इति प्रयोजनम् अपहाय ‘अदुह्वहि ’ इति लड्साध्यार्थकम् एव प्रयोजनत्वेन दर्शितवान् ॥ एवं भाष्ययोजनं तु सर्वत्रत्य-भाष्य-शैली-विरुद्धम् ॥
तथाहि भाष्यकारस्य शैली-प्रत्याख्यानोत्तरम् ‘न तर्हीदानीम् अयं योगो वक्तव्यः’ इत्य् अनुयोगोत्तरम् एव ‘वक्तव्यश्च’ इत्युत्तरस्य ’ किं प्रयोजनम्’ इत्यादिका सर्वत्र समुपलभ्यते॥ एवं च अदुह्वहि अदिह्वहि अलिह्वहि इति रूपाणि तु लङि साधनीयानि ॥ अगुह्वहि इति रूपं वेदे चेद् वैदिकत्वात् ‘आदप्रभृतिम्यः शपः ’ ‘बहुलं छन्दसि’ इति साधनीयम् ॥ लोके प्रामाणिकप्रयोगश् चेत् ‘छन्दोवत् कवयः कुर्वन्ति’ इति साधनीयम् ॥ इति दाधिनथाः ॥