मतुप्

Source: TW

तदस्यास्त्यस्मिन्निति

“५.२.९४ तदस्यास्त्यस्मिन्निति” मतुप् इति सूत्रेण “तद् अस्य अस्ति / तद् अस्मिन् अस्ति” इत्येतयोः अर्थयोः प्रातिपदिकेभ्यः “मतुप्” इति प्रत्ययः भवति । यथा, शक्तिः अस्य अस्ति सः शक्तिमान् पुरुषः ।

शक्तिः अस्य अस्ति तत् = शक्ति + मतुप् → शक्तिमत् । पुंलिङ्गे शक्तिमान्, स्त्रीलिङ्गे शक्तिमती । बुद्धिः अस्य अस्ति तत् = बुद्धि + मतुप् → बुद्धिमत् । पुंलिङ्गे बुद्धिमान्, स्त्रीलिङ्गे बुद्धिमती ।

कुत्रचित् मकारस्य वकारादेशः अपि भवति । यथा, लक्ष्मीः अस्य अस्ति सः लक्ष्मीवान् पुरुषः ।

ङीप्

स्त्रीत्वे विवक्षिते मतुप्-प्रत्ययान्तशब्दात् “ङीप्” इति स्त्रीप्रत्ययः विधीयते । शक्तिः अस्याः अस्ति सा शक्तिमती स्त्री ।

विशेष-विवक्षा

मतुप्-प्रत्ययः केवलम् विशिष्टेषु षट्सु सन्दर्भेषु एव भवति, इति वार्त्तिककारः —

भूम-निन्दा-प्रशंसासु
नित्य-योगेऽतिशायने ।
संसर्गेऽस्तिविवक्षायां
भवन्ति मतुबादयः ॥

  • भूमा (विपुलम्)
    • गावः अस्य सन्ति सः गोमान्
  • निन्दा (शरीरवैचित्र्यम्)
    • कुष्ठम् अस्य अस्ति सः कुष्ठवान्
  • प्रशंसा
    • रूपम् अस्य अस्ति सः रूपवान्
  • नित्ययोगः
    • गन्धः अस्य अस्ति इति गन्धवान्
  • अतिशायनम्
    • अतिशयेन उदरम् अस्य अस्ति सः उदरवान्
  • संसर्गः
    • दण्डः अस्य अस्ति सः दण्डवान्

वकारादेशः

येषाम् अन्तिमः वर्णः “अ, आ, म्, वर्गप्रथमः, वर्गद्वितीयः, वर्गतृतीयः, वर्गचतुर्थः” इति अस्ति —

  • रूप → रूपवान् । विद्या → विद्यावान् । किम् → किंवान् । विद्युत् → विद्युत्वान् (अत्र जश्त्वं न भवति) ।

येषाम् उपधावर्णः “अ, आ, म्” इति अस्ति —

  • यशस् → यशस्वान् । भास् → भास्वान् । लक्ष्मी → लक्ष्मीवान् ।

८.२.९ मादुपधायाश्च मतोर्वोऽयवादिभ्यः — यः शब्दः मकारान्तः / अकारान्तः / आकारान्तः / मकारोपधः / अकारोपधः / आकारोपधः अस्ति, तस्मात् विहितस्य मतुप्-प्रत्ययस्य मकारस्य वकारादेशः भवति ।
किम् → किंवान् । ज्ञान → ज्ञानवान् । विद्या → विद्यावान् ।
लक्ष्मी →‌ लक्ष्मीवान् । यशस् →‌ यशस्वान् । भास् → भास्वान् ।

८.२.१० झयः — यस्य शब्दस्य अन्ते झय्-प्रत्ययाहारस्य वर्णः विद्यते, तस्मात् विहितस्य मतुप्-प्रत्ययस्य मकारस्य वकारादेशः भवति । विद्युत् + मतुप् → विद्युत्वान् । सुहृद् + मतुप् → सुहृद्वान् ।

धनम् अस्य अस्ति तत् = धन + मतुप् → धन + वत् → धनवत् ।
विद्युत् अस्य अस्ति तत् = विद्युत् + मतुप् → विद्युत् + वत् → विद्युत्वत् ।
अत्र विद्युत् शब्दस्य १.४.१७ स्वादिष्वसर्वनामस्थाने इत्यनेन पदसंज्ञायां प्राप्तायाम्, १.४.१९ तसौ मत्वर्थे इत्यनेन तद्बाधित्वा भसंज्ञा विधीयते । तकारस्य पदान्तत्व-अभावात् “विद्युत्” इत्यत्र ८.२.३९ झलां जशोऽन्ते इति जश्त्वम् अपि न सम्भवति ।

अतएव, “चन्द्रः अस्याः अस्ति” इत्यस्मिन् अर्थे “चन्द्रवती” इत्येव शब्दः प्रयोक्तव्यः, न हि चन्द्रमती इति शब्दः ।

अपवादाः

मकारे

विशिष्टेषु संज्ञाशब्देषु मकारस्य वकारादेशः कृतः अस्ति —

  • मुनीवती, ऋषीवती, अमरावती, शरावती आदयः ।

वकारे

यवादिगणे ये शब्दाः विद्यन्ते, तेषाम् विषये अयम् वकारादेशः निषिध्यते । ८.२.९ मादुपधायाश्च मतोर्वोऽयवादिभ्यः इति सूत्रम् । यथा,

  • यव → यवमान् । भूमि → भूमिमान् । हरित् → हरित्मान् ।

यवादिगणः — यव । दल्मि । ऊर्मि । उर्मि । भूमि । कृमि । क्रुञ्चा । वशा । द्राक्षा । ध्राक्षा । घ्रजि । व्रजि । ध्वजि । निजि । सिजि । सञ्जि । हरित् । ककुद् । मरुत् । गरुत् । इक्षुद्रु । मधु । आकृतिगणोऽयम् । यव + मतुप् → यवमान् । भूमि + मतुप् →‌ भूमिमान् । मरुत् + मतुप् → मरुत्मान् । ककुद् +