Source: TW
छात्राय वदति इति प्रयोगः
२५१
वद् धातुः द्विकर्मकः । अतः आचार्यः छात्रम् धर्मं वदति — इति साधुप्रयोगः ।
अत्र धर्मम् इति प्रधानं कर्म । १.४.४९ कर्तुरीप्सिततमं कर्म इति अस्य कर्मसंज्ञा ।
छात्रम् इति गौणं कर्म । १.४.५१ अकथितं च इति अस्य कर्मसंज्ञा ।
अपादानादिविशेषैः अविवक्षितं कारकं कर्मसंज्ञं स्यात् — इति सिद्धान्तकौमुदी ।
यत्र अपादानादिकारकस्य विवक्षा वर्तते, तत्र कर्मसंज्ञा नैव भवति इत्याशयः ।+++(4)+++
अतः छात्र शब्दस्य सम्प्रदानविवक्षायां
आचार्यः छात्राय धर्मं वदति
— इति अपि साधु प्रयोगः ।
अत्र सम्प्रदानस्यैव विवक्षा कथम् ?
तर्हि वदति इति क्रिया छात्रम् उद्दिश्य क्रियते,
इत्युक्ते अनया क्रियया छात्रः अभिप्रीयते ।
अतः क्रियया यमभिप्रैति स सम्प्रदानम् इति वार्त्तिकेन छात्रस्य सम्प्रदानकारकत्वम्, ततश्च २.३.१३ चतुर्थी सम्प्रदाने इति चतुर्थीविभक्तिः ।