सर्वनामशब्दानां विभक्तिरूपाणि

Source: TW

सर्वनामसंज्ञकशब्दानां विभक्तिरूपाणि
२४१

१.१.२७ सर्वादीनि सर्वनामानि इत्यनेन आहत्य ४१ शब्दानां सर्वनामसंज्ञा दीयते ।
एतेषां कानिचन विभक्तिरूपाणि सामान्यरूपाणाम् अपेक्षया भिद्यन्ते —

जस्,
पुंलिङ्गनपुंसकलिङ्गयोः (पुंलिङ्गे एव) ७.१.१७‌ जसः शी इति शीभावः । सर्वे ।,
स्त्रीलिङ्गे -

ङे,
पुंलिङ्गनपुंसकलिङ्गयोः ७.१.१४ सर्वनाम्नः स्मै इति स्मै आदेशः । सर्वस्मै ।,
स्त्रीलिङ्गे ७.३.११४ सर्वनाम्नः स्याड्ढ्रस्वश्च इति स्याडागमः, ह्रस्वादेशः । सर्वस्यै । सर्वस्याः । सर्वस्याम् ।

ङसि, ङि;
पुंलिङ्गनपुंसकलिङ्गयोः ७.१.१५ ङसिङ्योः स्मात्स्मिनौ इति स्मात्, स्मिन् इति आदेशौ । सर्वस्मात् । सर्वस्मिन् ।
स्त्रीलिङ्गे ७.३.११४ सर्वनाम्नः स्याड्ढ्रस्वश्च इति स्याडागमः, ह्रस्वादेशः । सर्वस्यै । सर्वस्याः । सर्वस्याम् ।

आम्;
७.१.५२ आमि सर्वनाम्नः सुट् इति सुडागम । सर्वेषाम् । सर्वासाम् ।

पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर — एते शब्दाः सर्वादिगणे सन्ति ।
परन्तु जस्-प्रत्ययस्य उपस्थितौ
१.१.३४ पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् इति सूत्रेण एतेषां सर्वनामसंज्ञा विकल्प्यते । अतः जस्-प्रत्यये परे पूर्वे / पूर्वाः, परे / पराः इति उभयथा रूपाणि भवन्ति ।

जस्य्-एव-सर्वनामता

प्रथम, चरम, अल्प, अर्ध, कतिपय, तथा च तयप्-प्रत्ययान्तशब्दाः (यथा, द्वितय, त्रितय, चतुष्टय…) मूलरूपेण सर्वनामसंज्ञकाः न ।
परन्तु एतेषाम् केवलं जस्-प्रत्यये परे
१.१.३३ प्रथमचरमतयाल्पार्धकतिपयनेमाश्च इत्यनेन
विकल्पेन सर्वनामसंज्ञा भवति ।
अन्येषु विभक्तिप्रत्ययेषु परेषु एतेषां सर्वनामसंज्ञा न भवति ।
अतः एतेषां जस्-प्रत्यये परे रूपद्वयम् — प्रथमे / प्रथमाः । कतिपये / कतिपयाः । अल्पे / अल्पाः । अर्धे / अर्धाः । अन्यत्र तु एकमेव रूपम् । यथा, कतिपयाय, कतिपयात्, कतिपयानाम् । अतः कतिपयस्मै, कतिपयस्मात्, कतिपयेषाम् आदीनि अशुद्धरूपाणि ।

सिद्धान्तकौमुद्याम् १.१.३३ प्रथमचरम.. इत्यत्र —
एते जसः कार्यं प्रत्युक्तसंज्ञा वा स्युः । प्रथमे । प्रथमाः । शेषं रामवत् ।

तत्रैव बालमनोरमायाम् —
तत्र नेमशब्दस्य जसि सर्वनामसंज्ञा गणे पाठान्नित्या प्राप्ता । तद्विकल्पोऽत्र विधीयते । नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां तु गणे पाठाऽभावाद् अप्राप्ता एव सर्वनामसंज्ञा जसि विकल्पेन विधीयते । अतो नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां जसोऽन्यत्र न सर्वनामकार्यमित्याह - शेषं रामवदिति ।