रघूणाम्

२५४

रघुः इति रघुवंशस्य आदिमः राजा । रघोः अपत्यम् = रघु + अण् → राघव । एवमेव, यदु इति यदुवंशस्य आदिमः राजा । यदोः अपत्यम् = यदु + अण् → यादव । उभयत्र ४.१.८३ प्राग्दीव्योऽण् इति अण्-प्रत्ययः ।

रघु, यदु इति शब्दौ जनपदस्य नाम्नी न स्तः । अतः एताभ्यां शब्दाभ्यां ४.१.१६८ जनपदशब्दात् क्षत्रियाद् अञ् इत्यनेन अपत्यार्थे तद्राजसंज्ञकः प्रत्ययः नैव सम्भवति । इत्युक्ते, राघव/यादव-शब्दयोः बहुवचनस्य रूपेषु २.४.६२ तद्राजस्य बहुषु तेनैवास्त्रियाम् इत्यनेन सुप्-प्रत्ययस्य लुक् अपि न भवति । राघवः राघवौ राघवाः । यादवः यादवौ यादवाः ।

तथापि “रघूणाम् अन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्” इति रघुवंशे १.९ इत्यत्र “रघूणाम्” इति षष्ठीबहुवचनम् प्रयुक्तं दृश्यते । अत्र वस्तुतः “राघवाणाम्” इति भवेत् । अस्मिन् सन्दर्भे २.४.६२ तद्राजस्य बहुषु तेनैवास्त्रियाम् इत्यत्र —

रघूणाम् अन्वयं वक्ष्ये,
निरूध्यमाना यदुभिः कथंचित्
इति तु रघुयदुशब्दयोस्तदपत्ये लक्षणया — इति सिद्धान्तकौमुदी ।

रघुयदुशब्दयोः जनपदवाचित्व-अभावात् आभ्यां परस्य तद्राजसंज्ञा न,
इति लुकः अप्रवृत्या राघवाणां,
यादवैः इत्येव भवितव्यम् इत्याशङ्क्य आह — रघुयदुशब्दयोः इति ।
लक्षणया इति । ततश्चोक्तार्थत्वात् अपत्यप्रत्ययः न अत्र उत्पन्नः इति भावः — इति तत्त्वबोधिनी ।