प्रभृति, आरभ्य

Source: TW

प्रभृति, आरभ्य शब्दस्य योगे विभक्तिः
२४५

पञ्चमी

प्रभृति इति शब्दः तद्-आदि (beginning / commencement) - अस्मिन् अर्थे प्रयुज्यते ।
अस्य योगे पञ्चमी विभक्तिः भवति इति सिद्धान्तकौमुद्यां निर्दिष्टम् अस्ति —

अपादाने पञ्चमी इति सूत्रे कार्तिक्याः प्रभृति इति भाष्यप्रयोगात् प्रभृत्यर्थेयोगे पञ्चमी । भवात्प्रभृति आरभ्य वा सेव्यो हरिः — २.३.२९ अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते इत्यत्र सिद्धान्तकौमुदी ।

अत्र “प्रभृत्यर्थेयोगे पञ्चमी” इति निर्देशात् प्रभृति इति शब्दस्य समानार्थकानां शब्दानां प्रयोगे अपि पञ्चमी भवति इति स्पष्टम् ।
अतएव प्रभृति इत्यस्मिन् अर्थे प्रयुज्यमाणस्य आरभ्य इति शब्दस्य योगे अपि पञ्चमी विभक्तिः भवति ।
यथा, शिवात् आरभ्य सर्वे देवाः पूजनीयाः ।
इयम् उपपदविभक्तिः
अतएव “ततः आरभ्य” इति प्रयोगः अपि सिद्ध्यति ।

द्वितीया

वस्तुतस्तु, आरभ्य = आ + रभ् + ल्यप् इति ल्यप्-प्रत्ययान्तः शब्दः ।
अत्र रभ्-धातुः सकर्मकः,
अतः तत्र कर्मपदस्य विवक्षा अस्ति चेत्
तस्य अन्वयः आरभ्य इत्यनेन सह सम्भवति ।
अस्यां स्थितौ आरभ्य इत्यस्य योगे
२.३.२ कर्मणि द्वितीया
इत्यनेन द्वितीया विभक्तिः विधीयते ।
इयं कारकविभक्तिः

“उपपदविभक्तेर् कारकविभक्तिः बलीयसी”
इति न्यायेन इयं कारकविभक्तिः उपपदविभक्तिं बाधते;+++(5)+++
अतः अत्र (कर्मपदस्य विवक्षायाम्) द्वितीया एव भवति ।
यथा,
“हिमालयं समारभ्य यावदिन्दुसरोवरम्, तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते” अत्र द्वितीया प्रयुज्यते ।

आरभ्य शब्दस्य योगे कर्मविवक्षायां द्वितीया, तद्भिन्नस्थले पञ्चमी ।
भवम् भवात् वा आरभ्य सेव्यो हरिः ।

प्रभृति शब्दस्य योगे नित्यं पञ्चमी ।
भवात् प्रभृति सेव्यो हरिः ।

२.३.२९ अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते इत्यत्र बालमनोरमा

आरभ्य इत्यस्य योगे कर्मणः अविवक्षायाम् शेषषष्ठीं बाधित्वा पञ्चमी भवति, येन “भवात् आरभ्य सेव्यो हरिः” इति प्रयोगः सिद्ध्यति — इति अत्र आशयः ।