पूर्वादयः

पूर्व, पश्चिम, दक्षिण, उत्तर - एतानि प्रातिपदिकानि दिशावाचके अर्थे स्त्रीलिङ्गे, तथा च देशवाचके अर्थे त्रिषु लिङ्गेषु प्रयुज्यन्ते । “पूर्व / उत्तर” एते प्रातिपदिके तु कालवाचके अर्थे अपि त्रिषु लिङ्गेषु प्रयुज्येते ।

पूर्व, उत्तर, दक्षिण - एते त्रयः सर्वनामशब्दाः सन्ति, अतः एतेषाम् कानिचन रूपाणि विशिष्टप्रकारेण भवन्ति —

पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
प्रथमाबहुवचनम् पूर्वे / पूर्वाः पूर्वाः पूर्वाणि
चतुर्थ्येकवचनम् पूर्वस्मै पूर्वस्यै पूर्वस्मै
पञ्चम्येकवचनम् पूर्वस्मात् / पूर्वात् पूर्वस्याः पूर्वस्मात् / पूर्वात्
षष्ठीबहुवचनम् पूर्वेषाम् पूर्वासाम् पूर्वेषाम्
सप्तम्येकवचनम् पूर्वस्मिन् / पूर्वे पूर्वस्याम् पूर्वस्मिन् / पूर्वे

प्रयोगाः

  • कालवाचिनि अर्थे त्रिषु लिङ्गेषु — यथा, चैत्रात् पूर्वः फाल्गुनः, भरण्याः पूर्वा अश्विनी । अत्र पञ्चमी प्रयोक्तव्या ।
  • अव्ययरूपेण
    • प्राचीने काले इत्यर्थे — पूर्वमेव मया ज्ञातम् पूर्णम् एतद् हि मेधसा — पञ्चतन्त्रम् ।
    • आरम्भकाले इत्यर्थे — पूर्वं मानादवज्ञाय द्रव्यार्थे जननीवशात् — मृच्छकटीकम् ।
    • प्राथम्येन इत्यर्थे ‌— पूर्वं तादवदं मूर्खः द्वितीयाः पाशबन्धकः — पञ्चतत्रम् ।
  • अवयववाचिनि अर्थे प्रथमातत्पुरुषसमासे — पूर्वं कायस्य इति पूर्वकायः । अत्र षष्ठी प्रयोक्तव्या ।
  • विशेषणरूपेण कर्मधारयसमासे — पूर्वः पक्षः पूर्वपक्षः । पूर्वं पदं पूर्वपदम् । पूर्वम् अर्धं पूर्वार्धम् ।
  • उत्तरपदरूपेण तृतीयातत्पुरुषसमासे — मासेन पूर्वः मासपूर्वः ।
  • उत्तरपदरूपेण केवलसमासे — पूर्वं दृष्टः दृष्टपूर्वः । एवमेव, श्रुतपूर्वः, भूतपूर्वः ।
  • “क” प्रत्ययेन सह — मन्दहासपूर्वकं वदति । मन्दः च असौ हासः इति मन्दहासः । मन्दहासेन पूर्वं मन्दहासपूर्वम् । स्वार्थे कप्रत्ययः — मन्दहासपूर्वकम् ।