नमस्कुर्मः

Source: TW

नमस्कुर्मः शब्दस्य योगे द्वितीया

२५०

नमस् इत्यस्य योगे २.३.१६ नमः स्वस्तिस्वाहा… इत्यनेन चतुर्थी । देवाय नमः । इयम् उपपदविभक्तिः ।

कृ-धातुः सकर्मकः, अतः तस्य योगे कर्मपदस्य २.३.२ कर्मणि द्वितीया इत्यनेन द्वितीया । कुम्भं करोति । इयं कारकविभक्तिः ।

तर्हि नमस् + कृ इत्यस्य योगे का विभक्तिः ? देवाय नमस्करोति उत देवं नमस्करोति ?

उपपदविभक्तेः कारकविभक्तिः बलीयसि — इति व्याकरणपरिभाषा (१०३) ।
यत्र उपपदविभक्तिः तथा कारकविभक्तिः एतयोर्मध्ये परस्परविरोधः जायते, तत्र कारकविभक्तिः एव प्रयोक्तव्या — इति अस्याः आशयः । अतः देवं नमस्करोति इत्यस्यैव साधुत्वम् ।

परन्तु, बहुषु स्थलेषु नमस् + कृ इत्यस्य योगे चतुर्थी अपि दृश्यते । रावणाय नमस्कुर्याः, नमश्चकार देवेभ्यः इति भट्टिप्रयोगौ । शङ्कराय नमस्कुर्मः इति मुद्राराक्षसे ।

एतेषु सर्वेषु अपि स्थलेषु अनुकूलयितुम् इत्यस्यैव अध्याहारं कृत्वा
२.३.१४ क्रियार्थोपपदस्य च कर्मणि स्थानिनः
इत्येव सूत्रम् उपयुज्य चतुर्थ्याः साधुत्वम् उच्यते ।(4)
देवाय नमस्करोति = देवम् (अनुकूलयितुम्) नमस्करोति इति आशयः ।

एतादृशाः प्रयोगाः अस्माभिः अपि कर्तुं शक्याः, यतः अत्र पाणिनेः सूत्रमेव एतेषाम् प्रयोगाणां साधुत्वं निर्दिशति । अत्र स्थितस्य गति चिन्तनीया इति नियमः नानुसृतः !