घिसंज्ञा

Source: TW

पतिशब्दस्य घिसंज्ञा

२४७, २४८

१.४.८ पतिः समास एव इति सूत्रेण पति-शब्दस्य समासे एव घिसंज्ञा भवति । इत्युक्ते, पृथक् रूपेण प्रयुक्तस्य पति-शब्दस्य घिसंज्ञा न भवति; अतः तस्य रूपाणि “पत्या / पत्ये / पत्युः / पत्यौ” इति भवन्ति । परन्तु वेदेषु, किञ्च लौकिकसंस्कृते अपि ऋषीणां प्रयोगे “पतिना”, “पतये” इति शब्दाः प्रयुक्ताः दृश्यन्ते —

सीतायाः पतये नमः — इति रामरक्षास्तोत्रे ।
क्लीबे च पतिते पतौ — इति पराशरस्मृतौ ।
गृहस्थे निर्गते पतौ — इति नृसिंहपुराणे ।
पशूनां पतये नमः — इति स्कन्दपुराणे ।
कुलुञ्चानां पतये नमः — इति यजुर्वेदे ।
क्षेत्रस्य पतिना वयम् — इति ऋग्वेदे ।

एतादृशाः प्रयोगाः वेदे षष्ठीविभक्तेः सम्बन्धे सन्ति चेत्
१.४.९ षष्ठीयुक्तश्छन्दसि वा
इति षष्ठीयोगे विकल्पेन घिसंज्ञां स्वीकृत्य रूपसाधुत्वं वक्तुं शक्यम् ।
किञ्च, सूत्रे “युक्त” शब्दप्रयोगात्, सूत्रस्य योगविभागात् वा सर्वासाम् अपि विभक्तीनां विषये घिसंज्ञाविकल्पः सम्भवति ।

ऋषीणां कृतिषु विद्यमानानि एतानि रूपाणि आर्षत्वात् दोष-रहितानि भवन्ति ।
सीतायाः पतये नमः इत्यादि तु आर्षम् — इति बालमनोरमा ।

नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते

ऋषिभिः प्रयुक्तानां पतिना, पतये, पतेः, पतौ आदीनां प्रयोगाणां साधुत्वार्थम् पतिशब्दस्य अपि कथञ्चित् घिसंज्ञा कर्तव्या । तदर्थम् चत्वारि स्पष्टीकरणानि दातुं शक्यन्ते —

अहं पतिः इति आचष्टे इति —
= पति + णिच् [तत्करोति तदाचष्टे]
→ पत् + इ [प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च इत्यनेन इष्ठवद्भावः । अतः ६.४.१५५ टेः इति टिलोपः]
→ पति [सनाद्यन्ता धातवः इति धातुसंज्ञा]
→ पति + इ [अच इः इति उणादिसूत्रेण कर्त्रर्थे इ-प्रत्ययः]
→ पत् + इ [णेरनिटि इति णिलोपः]
→ पति

अहं पतिः इति यः वदति सः पतिः ।

लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् (परिभाषा ११४)
इति न्यायेन पतिः समास एव इति सूत्रे
केवलं प्रतिपदोक्त-पति-शब्दस्यैव ग्रहणम्,
न हि तत्करोति तदाचष्टे इत्यनेन प्रक्रियया सिद्धस्य पति-शब्दस्य ।
अतः अस्य प्रक्रियासिद्धस्य पतिशब्दस्य रूपाणि तु पतिना, पतये इत्यादीनि एव भवन्ति !

१.४.८ पतिः समास एव इत्यत्र तत्त्वबोधिनी

१.४.८ पतिः समास एव इत्यत्र दुर्घटवृत्तिः

[७]. एवं च वदता पतिशब्दस्य समासे घित्वं गृहपतिना ४.४.९० इति निर्देशलिङ्गात् साधनीयम् ।

शेषो “घ्य् असखिपती” इति वक्तव्ये
पाणिनिना “शेषो घ्यसखि” इत्येव उक्तम् ।
एतदेव ज्ञापकम्,
यत् पतिशब्दस्य कुत्रचित् घिसंज्ञा भवितुम् अर्हति ।
अतश्च पतिना, पतये इति रूपाणि अवश्यं साधुत्वं प्राप्नुवन्ति — इति दुर्घटवृत्तिकारस्य मतम् ।

परन्तु अत्र कथने कश्चन दोषः अस्ति !

ह्रस्व-इकारान्तपुंलिङ्गशब्दानाम् १.४.७ शेषो घ्यसखि इति सूत्रेण घि इति संज्ञा भवति । तस्य प्रयोजनम् मुनिना, मुनेः, मुनौ इत्यादिषु रूपेषु दृश्यते ।
सूत्रे “असखि” इति विधानात् सखि इति शब्दस्य तु घिसंज्ञा न भवति । सख्या, सख्ये, सख्युः, सख्यौ ।

ग्रहणवता प्रातिपदिकेन तदन्तविधिर् नास्ति‌
इति परिभाषाम् अनुसृत्य
१.४.७ शेषो घ्यसखि
इत्यत्र विद्यमानः सखिशब्दः तदन्तस्य ग्रहणं न करोति ।
अतः समासे उत्तरपदरूपेण विद्यमानस्य सखि-शब्दस्य घिसंज्ञा नैव निषिध्यते । यथा, प्रियसखिना ।
एवमेव, ५.३.६८ विभाषा सुपो बहुच् पुरस्तात् इति सूत्रेण सिद्धस्य “बहुसखि” इति बहुच्-प्रत्ययान्त-शब्दस्य घिसंज्ञा अपि नैव निषिध्यते । यथा, बहुसखिना ।

पति शब्दस्य १.४.८ पतिः समास एव इत्यनेन केवलं समासे एव घिसंज्ञा भवति । यथा, सीतापतिना ।
पृथक् रूपेण प्रयुक्तस्य पति-शब्दस्य, एवमेव बहुच्-प्रत्ययान्तस्य पति-शब्दस्य तु घिसंज्ञा न भवति । यथा — पत्या / बहुपत्या ।

सखि बहुसखि प्रियसखि
घिसंज्ञा न भवति, भवति, भवति

पति बहुपति सीतापति
न भवति, न भवति, भवति

पति शब्दः
शेषो घ्यसखि, पतिः समास एव; शेषो घ्यसखिपती; शेषो घिः, सखिपती समास एव न भवति । पत्या ।; न भवेत् । पत्या ।; न भवेत् । पत्या ।

बहुच्-प्रत्ययान्तः बहुपति शब्दः
शेषो घ्यसखि, पतिः समास एव; शेषो घ्यसखिपती; शेषो घिः, सखिपती समास एव न भवति । बहुपत्या ।; भवेत् । बहुपतिना ।; न भवेत् । बहुपत्या ।

सीतापति इति समस्तपदम्
शेषो घ्यसखि, पतिः समास एव; शेषो घ्यसखिपती; शेषो घिः, सखिपती समास एव भवति । सीतापतिना ।; भवेत् । सीतापतिना ।; भवेत् । सीतापतिना ।

सखि शब्दः
शेषो घ्यसखि, पतिः समास एव; शेषो घ्यसखिपती; शेषो घिः, सखिपती समास एव न भवति । सख्या; न भवेत् । सख्या ।; न भवेत् । सख्या ।

बहुच्-प्रत्ययान्तः बहुसखि शब्दः
शेषो घ्यसखि, पतिः समास एव; शेषो घ्यसखिपती; शेषो घिः, सखिपती समास एव भवति । बहुसखिना ।; भवेत् । बहुसखिना ।; न भवेत् । बहुसख्या ।

प्रियसखि इति समस्तपदम्
शेषो घ्यसखि, पतिः समास एव; शेषो घ्यसखिपती; शेषो घिः, सखिपती समास एव भवति । प्रियसखिना ।; भवेत् । सीतापतिना ।; भवेत् । प्रियसखिना ।

१.४.८ पतिः समास एव इत्यत्र तत्त्वबोधिनी

शेषो घ्यसखिपती इति सूत्रं क्रियते चेत् बहुपति इति बहुच्-प्रत्ययान्त-शब्दस्य विषये
ग्रहणवता प्रातिपदकेन तदन्तविधिर्नास्ति इति परिभाषाम् अनुसृत्य
घिसंज्ञा नैव निषिध्येत,
येन बहुपत्या इत्यस्य स्थाने बहुपतिना इति अनिष्टं रूपं भवेत् ।

सखिपती समासे एव इति सूत्रं क्रियते चेत् तु
सखि-शब्दस्य केवलं समासे एव घिसंज्ञा भवेत्,
येन बहुसखि-शब्दस्य विषये अपि घिसंज्ञा निषिध्येत,
अतः तत्र बहुसखिना इत्यस्य स्थाने बहुसख्या इति अनिष्टं रूपं भवेत् ।
अतश्च, दुर्घटवृत्तिकारस्य कथने दोषः अस्ति इति सिद्धम् ।

१.४.८ पतिः समास एव अस्मिन् सूत्रे १.४.९ षष्ठीयुक्तश्छन्दसि वा इत्यस्मात् वा इत्यस्य अपकर्षं कृत्वा पतिशब्दः समासे नित्यं घिसंज्ञां प्राप्नोति; अन्यत्र विकल्पेन घिसंज्ञां प्राप्नोति इति सूत्रार्थः वक्तव्यः — इति तृतीयम् समाधानम् ।

अस्मिन् पक्षे दोषः — वैदिककार्यविशिष्टात् सूत्रात् लौकिककार्यसम्बन्धिनि सूत्रे अपकर्षः नोचितः !

तर्हि छन्दोवत् कवयः भवन्ति इति न्यायेन कविरचनानाम् साधुत्वार्थम् वैदिककार्यविशिष्टात् सूत्रात् लौकिककार्यसम्बन्धिनि सूत्रे अपकर्षः सम्भवति — इति उत्तरम् ।

तत्रापि दोषः — छन्दोवत् कवयः कुर्वन्तः; न हि एषा इष्टिः इति १.४.३ यू स्त्र्याख्यौ नदी इत्यत्र भाष्यकारेण स्पष्टीकृतम् । छन्दोवत् कवयः भवन्ति इति वचनं नोचितम् ; अतश्च लौकिकप्रयोगेषु छन्दसा सह तुल्यता न स्वीकर्तव्या इति अत्र भाष्यकारस्य आशयः ।

“सीतायाः पतये नमः” इत्यादिषु आर्षप्रयोगेषु वस्तुतः अलुक्-समासः अस्ति, अतः समासे पतिशब्दस्य अवश्यं घिसंज्ञा सम्भवति — इति चतुर्थं समाधानम् ।

अस्मिन् पक्षे दोषः — अत्र पूर्वपदस्य अलुग्विधानार्थम् न किञ्चन सूत्रम् ! ६.३.२४ विभाषा स्वसृपत्योः इत्यनेन केवलं विद्यासम्बन्धि, योनिसम्बन्धि पूर्वपदम् अस्ति चेदेव अलुक्, नान्यत्र । ६.३.१४ तत्पुरुषे कृति बहुलम् इत्यनेन कृदन्ते उत्तरपदे एव अलुक्, नान्यत्र । ६.३.२३ ऋतो विद्यायोनिसम्बन्धेभ्यः इत्यनेन ऋकारान्त-पूर्वपदस्य विषये एव अलुक्, नान्यत्र । ६.३.२१ षष्ठ्या आक्रोशे इत्यनेन आक्रोशे गम्यमाने एव षष्ठ्याः अलुक्, नान्यत्र … । किञ्च, “पतिते पतौ” एतादृशेषु स्थलेषु तु समासविधानमेव न सम्भवति, अतः तत्र १.४.८ पतिः समास एव इत्यस्यैव प्रयोगः न शक्यः ।

युक्तिचतुष्टयस्य विमर्शनात् तत्त्वबोधिनीकारस्य तत्करोति तदाचष्टे इति प्रथमा युक्तिः एव युक्तसङ्गता ।
परन्तु एतत् सर्वं स्थितस्य गतिश्चिन्तनीया इति न्यायेन उच्यते, अतः अस्माभिः “सीतायाः पतये नमः” इत्यादयः प्रयोगाः न करणीयाः — इत्येव दिक् ।+++(5)+++