Source: TW
एनप्-प्रत्ययान्तशब्दाः
२४६
५.३.३५ एनबन्यतरस्यामदूरेऽपञ्चम्याः इति सूत्रेण
उत्तर, अधर, दक्षिण एतेभ्यः शब्देभ्यः
“समीपम्” अस्मिन् सन्दर्भे, सप्तम्यर्थे, प्रथमार्थे च
एनप् इति तद्धितप्रत्ययः भवति ।
यथा, उत्तरस्यां दिशि (समीपे) = उत्तर + एनप् = उत्तरेण ।
एवमेव, दक्षिणेन, अधरेण ।
एनप्-प्रत्ययान्तशब्दानां योगे २.३.३१ एनपा द्वितीया इत्यनेन द्वितीया विभक्तिः भवति ।
हिमवन्तं दक्षिणेन, पारियात्रम् उत्तरेण — इति भाष्ये ।
दक्षिणेन वृक्षवाटिकामालाप इव दृश्यते — शाकुन्तले ।
दण्डकान् दक्षिणेनाहं सरितोऽद्रीन् वनानि च — भट्टिकाव्ये ।
‘दक्षिणेन सरस्वत्याः’ इत्यत्र द्वितीयाभावः आर्षः — इति अव्ययकोशे ।
सिद्धान्तकौमुदीसहिता बालमनोरमा
एनप्-प्रत्ययस्य योगे कौमुदीकारेण निर्दिष्टा षष्ठी एकदेश्युक्तिः स्वीक्रियते;
अन्यैः तस्य समर्थनं न कृतम् अस्ति — इत्याशयः ।
उत्तरमेघः १५
धनपतिगृहात् इति पाठे
उत्तरेण इति तोरणेन इत्यस्य विशेषणम् स्वीक्रियते ।
तत्त्वबोधिनीकारेण अपि अयम् एव पक्षः निर्दिष्टः अस्ति ।
दुर्घटवृत्तौ कर्तृकरणयोस्तृतीया इत्यत्र
१. उत्तरेण इति निपातः (अव्ययम्)
२. उत्तर इति शब्दः प्रकृत्यादिगणे स्वीक्रियते, अतः “उत्तरेण आगारम्” इति प्रयोगः ।
३. उत्तर शब्दः करणे प्रयुक्तः । उत्तरेण पथा गत्वा ।