Source: TW
अनन्तर इति शब्दः
२५२, २५३
अर्थः
अनन्तर इति शब्दः बहुव्रीहिसमासेन सिद्ध्यति ।
न विद्यते अन्तरं (व्यवधानम्) यत्र तत् अनन्तरम् । व्यवधानरहितः (अव्यवहितः) इत्याशयः ।
इदं व्यवधानम् द्विविधम् । दैशिकं कालिकं च ।
द्वयोः स्थलयोः मध्ये व्यवधानम् नास्ति चेत् दैशिकम् अस्मिन् अर्थे अनन्तरशब्दप्रयोगः । “आर्यावर्ताद् अनन्तरः ब्रह्मर्षिदेशः” इति उदाहरणम् ।
द्वयोः कालयोः मध्ये व्यवधानं नास्ति चेत् कालिकम् अस्मिन् अर्थे अनन्तरशब्दप्रयोगः । तदपि द्विविधम्, पूर्वकालकृतम्, उत्तरकालकृतं च ।
“अनन्तरोदीरितलक्ष्मभाजौ पादौ” इत्यत्र पूर्वकालकृतम्,+++(5)+++
“तदिदं क्रियतामनन्तरम्” इति उत्तरकालकृतम् ।
कुत्रचित् अवधिशून्यत्वे / अवकाशशून्यत्वे अपि अस्य प्रयोगः दृश्यते ।
त्यागाच्छान्तिरनन्तरम् (इति भगवद्गीता) । कर्मफलत्यागेन तत्क्षणे एव शान्तिः अनुभूयते इत्याशयः । अत्र “व्याप्तौ द्वितीया” ग्राह्या ।
- वाचस्पत्यम्
बहुव्रीहिसमासेन सिद्धाः शब्दाः विशेष्यनिघ्नाः सन्ति ।
अतः अनन्तर इति शब्दः अपि विशेष्यनिघ्नः एव ।
परन्तु कल्पद्रुमे अनन्तर-शब्दस्य अर्थविधाने
“पश्चादर्थे क्लीबम्” इति तस्य नपुंसकत्वम् एव उक्तं दृश्यते ।
तत् चिन्त्यम् ।
अस्मिन् सन्दर्भे — एतस्य क्लीबोक्तिः अर्वाचीनानां प्रामादिकी — इति वाचस्पत्यम् ।
अन्तन्तर-शब्दस्य क्रियाविशेषणकत्वेन प्रयोगं स्वीकृत्य क्रियाविशेषणानां द्वितीयैकवचनं क्लीबत्वं च इति न्यायेन कथञ्चित् क्लीबत्वप्रतिपादनम् शक्यम् ।
केषाञ्चन मतेन, “अन्तरस्य अभावः” अस्मिन् अर्थे २.१.६ अव्ययं विभक्तिसमीप… इति सूत्रेण अव्ययीभावसमासे कृते, न + अन्तर → अनन्तर इति सिद्धे २.४.८३ नाव्ययीभावादतोऽम्त्वपञ्चम्याः इत्यनेन सुँ-प्रत्ययस्य अमादेशे कृते “अनन्तरम्” इति मान्तम् अव्ययं सिद्ध्यति । एतदपि चिन्त्यम् ।
“अभावार्थे अव्ययीभावः इत्याशयेन मान्तत्वकल्पनम् अपि तत् तत् उदाहरणेषु अनन्वयात् उपेक्ष्यम्” — इति वाचस्पत्यम् ।
कुत्रचित् “न अन्तरम् = अनन्तरम्” इति नञ्-तत्पुरुषसमासः अपि कृतः दृश्यते । परन्तु अस्य प्रयोगः विरलः ।
अनन्तर इति शब्दस्य योगे विभक्तिः
२५२, २५३
अनन्तर इति शब्दस्य योगे का विभक्तिः प्रयोक्तव्या — अस्मिन् सन्दर्भे पाणिनिना साक्षात् किमपि नोक्तम् । परन्तु शिष्टप्रयोगेषु अस्य शब्दस्य योगे प्रायेण पञ्चमी, षष्ठी वा प्रयुक्ता दृश्यते ।
सर्गशेषप्रणयनात् विश्वयोनेः अनन्तरम्
इति कुमारसम्भवे ६.९ ।
तत्र मल्लिनाथव्याख्यानम् ।
तदनन्तरम् इत्यत्र २.२.८ षष्ठी इति षष्ठीतत्पुरुषसमासः । तस्य अनन्तरम् तदनन्तरम् । अत्र तस्मात् अनन्तरम् तदनन्तरम् इत्यत्र पञ्चमी-तत्पुरुषसमासः यद्यपि प्रचलितः, तथापि तादृशं सूत्रं न वर्तते । अतः अस्य समर्थनाय २.१.३२ कर्तृकरणे कृता बहुलम् इति सूत्रं आश्रयणीयम् ; अथ वा केवलसमासरूपेण समर्थनं करणीयम् ।
“गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय सा” (कुमारसम्भवे २.४३)
इत्यत्र गर्जितात् गर्जितस्य वा अनन्तराम् इति मल्लिनाथः ।
अत्र षष्ठीतत्पुरुषसमासः २.२.८ षष्ठी इति सूत्रेण सुकरः ।
पञ्चमीतत्पुरुषसमासस्य समर्थने अत्रापि क्लेशः, अतः बहुलग्रहणेन, केवलसमासरूपेण वा कथञ्चित् साधुत्वं ज्ञाप्यते ।
अत्र अनन्तरा इति शब्दः बहुव्रीहिसमासेन सिद्धः ; अतः अस्य विशेष्यनिघ्नता, अतश्च स्त्रीलिङ्गे अपि प्रयोगः साधु । नास्ति अन्तरं यस्याः सा अनन्तरा ।