पाणिन्य्-उक्त-लक्षणेषु वैकल्यम् अवगत्य
तत्र तत्र वार्त्तिककारो वररुचिः परिश् चकार।
ततः महाभाष्यकारः पतञ्जलिर् उभाव् अपि परिश् चकार।
नागेशभट्टश् च
महाभाष्यकारात् पतञ्जलेर् अपि, याज्ञिकेभ्यश् च
स्वाभिप्राय-भेदम् प्राकटयत्।
स्वतः पाणिनिः स्वकृत-लक्षणस्यापर्याप्ततां जगाद -
यथा “सातत्ये” इत्य् अपाणिनीयस्य प्रयोगेण,
निपातानां बहुत्र च वचनेन।
पतञ्जलिर् अपि तत्र तत्र तद् आह।
एवं परेऽपि लक्ष्यस्यैव प्राधान्यम्, लक्षणस्योपकारकत्वमात्रम् ऊचुः - “स्थितेस् तु गतिश् चिन्तनीय” इत्यादिभिः।
एवं वेदान्तशास्त्रापेक्षया ऽत्रापि पूर्वस्य पूर्वस्य प्रामाण्यं न।
प्रत्युत ज्योतिषवत् परस्य परस्यैव प्रामाण्यम्।