अपाणीयत्वाङ्गीकारः

अपाणिनीयानाम् अङ्गीकारः

Panini suggests - there may be some अपाणिनीयप्रयोग - it is acceptable –
अपरस्पराः क्रियासातत्ये पा 6-1-139 – सातत्ये इति अपाणिनीयः शब्दः । एकदेशानुमतिद्वारा सर्वानुमतिः ।

महाभाष्यम् तत्र तत्र – अपाणिनीयं तु भवति ।

काव्येषु शास्त्रेषु च

विश्रामः – मालतीमाधवे , शाकुन्तले च अपाणिनीयः प्रयोगः ।
सर्वेषु न्यायवेदान्तग्रन्थेषु – कालीन…। कालाट्ठञ् पा 4-3-11 – कालिकः ।

लक्ष्यकेन्द्रित-लक्षणानुसन्धानम्

लक्ष्यकेन्द्रिते हि लक्षणानुसन्धाने रुचिः।
किञ्च स्वीय-लक्षण-ज्ञानस्य वैकल्यात् क्वचिल् लक्षण-ज्ञानम् पूरणीयं वेति संशये जाते
विद्वत्तरान् आश्रयामि 🙏।

आर्षप्रयोगे, कविप्रयोगे

यत्र तु लक्ष्यं लक्षणाद् अपेतम्, तत्र “स्थितस्य गतिश् चिन्तनीये"ति लक्षणनिपीडनापेक्षया, तयोर् व्यावर्तनस्यैवाङ्गीकारो रोचतेतराम्।

“किञ्च, येन केनाऽपि शब्देन पञ्चमीतत्पुरुषो घटितुं शक्य इति न चिन्तनीयम् ननु - “सुप् सुपेति समासः” इति वा “मयूरव्यंसकादयः च समानाधिकरणेने"ति वावलम्ब्य । ननु काशिका वदति - “अविहितलक्षणस् तत्पुरुषो मयूरव्यंसकाऽदिषु द्रष्टव्यः”। तौ मार्गौ भूरिशः कृतानां शिष्टप्रयोगाणां पाणिनीयत्वं दर्शयितुं भवन्ति। न पुनः सामान्यानां प्रयोगाणाम्। तत्राऽपि “केचन सन्ति शिष्टप्रयोगा ये पाणिनीयलक्षणैर् न गृह्यन्ते। किं वा लक्षणं सम्पूर्णं दोषरहितं वा भवितुम् अर्हति? ते भूरिशः कृताः शिष्टप्रयोगाः साधव इत्य् अङ्गीकार्याः” इति विनीत-वचनम् “न न, अपाणिनीयमपि पाणिनीयी करवाम सुप्सुपेत्य् उक्वे"ति धार्ष्ट्याद् उत्तरं‌ मन्ये।”

  • आर्षप्रयोगे, कविप्रयोगे, तदनुकरणानधिकारे च अत्र