झरो झझयो होऽन्यतरस्यां [[८.४.६२]] इत्यतो वाऽवसाने [[८.४.५६]] इत्यतो वा विकल्पोऽनुवर्त्तते । हयवरट्सूत्रशेषे भाष्ये स्पष्टमिदम्। लोपे इति । ऋधधातोर्झर इति भावः । असतीति । द्वित्वाभाव इत्यनुकृष्यते । त्रिधमिति । त्रिधकारत्वं प्रक्रियाभिप्रायेण । न च द्वित्वभिन्ने पूर्वत्र कर्त्तव्ये परमसिद्धमित्यर्थकेन <!पूर्वत्रासिद्धीयमद्वित्वे!> (वा० [[८.२.१]]) इत्यनेन धातुधकारस्य जश्त्वे दस्य द्वित्वमितीदमयुक्तमिति वाच्यम् । फले विशेषाभावेन तदनादरणात् । न ह्यत्र जश्त्वात्पूर्वमनन्तरं वा द्वित्वे रूपे विशेषोऽस्ति, तदनन्तरञ्जश्त्वप्रवृत्तेस्तस्य परिभाषात्वेन फलविशेषे एव प्रवृत्तेरित्यन्यत्र विस्तरः । पञ्चमीति । विनिगमकाभावादिति भावः । अत एवास्य वैकल्पिकत्वम् ॥