वा यमीतिझयो होऽन्यतरस्याम् [[८.४.६२]] इत्यतो “अन्यतरस्याम्” इत्यनुवृत्तेरिति भावः । दीर्घादाचार्याणाम् [[८.४.५२]] इत्युत्तरम् अनुस्वारस्य ययि परसवर्णः [[८.४.५८]], वा पदान्तस्य [[८.४.५९]], तोर्लि [[८.४.६०]], उदः स्थास्तम्भोः पूर्वस्य [[८.४.६१]], झयो होन्यतरस्याम् [[८.४.६२]], शश्छोऽटि [[८.४.६३]] - इति षट्सूत्रीपाठोत्तरं झलां जश् झशि [[८.४.५३]], अभ्यासे चर्च [[८.४.५४]], खरि च [[८.४.५५]], वाऽवसाने [[८.४.५६]], अणोऽप्रगृह्यस्यानुनासिकः [[८.४.५७]] - इति पञ्चसूत्र्याः पाठ इति भाष्यसम्मताष्टाध्यायीपाठे तु वाऽवसाने [[८.४.५६]] इत्यतोऽनुवृत्तिर्बोद्ध्या । स्पष्टञ्चास्य वैकल्पिकत्वं लण्सूत्रे भाष्ये । आदित्य इति । आदित्यशब्दाच्छेषार्थण्यन्ताद्देवतार्थे ण्यः । यस्येति च [[६.४.१४८]] इत्यल्लोपेऽनेन यलोपः । आपत्यस्य च तद्धितेऽनाति [[६.४.१५१]] इति तु न । आपत्यत्वाभावात् । हल इति किम् ? शय्या । यमामिति किम् ? आर्ध्नोत् । यमीति किम् ? रामाभ्याम्