संयुक्तेष्वितित्रिप्रभृतिषु शाकटायनस्य [[८.४.५०]] इति सूत्रे वर्णानां सजातीयानामेव ग्रहणं परस्परसाहचर्यात् । न च तथाऽचः सम्भवन्ति । अत एव अचो रहाभ्यां द्वे [[८.४.४६]] इति सार्थकम् । निर्धारणे सप्तमी, अच इत्यनुवर्त्तते, त्रिप्रभृतिसंयुक्तवर्णमध्येऽचः परस्य यरो द्वे वा न स्त इत्यर्थः । तेन इन्द्रः, राष्ट्रम् इत्यत्र नकारषकारयोः प्राप्तद्वित्वस्यैव निषेधविकल्पः । अनचि च [[८.४.४७]], सर्वत्र शाकल्यस्य [[८.४.५१]] इत्येव सिद्धे इदं सूत्रद्वयं विकल्पस्य मतभेदप्राप्तव्यवस्थाबोधनार्थमिति बोध्यम् । यरोनुनासिकेनुनासिको वा [[८.४.४५]] इत्यतो वेत्यनुवृत्त्या अनचि च [[८.४.४७]] इत्येव सिद्धे सूत्रत्रयमपि तथेति बोद्ध्यम् ॥