नादिन्या । यरोनुनासिकेनुनासिको वा [[८.४.४५]] इत्यतो “यर” इति वर्त्तते । पुत्रशब्दस्येत्यवयवषष्ठी । आदिनीशब्दे परे इति च प्राधान्याद् यर एव विशेषणम् । सूत्रे आदिनीति ङ्यन्तानुकरणं लुप्तसप्तमीकम् । अत एव <!तत्परे च!> (वा० [[८.४.४८]]) इत्यस्य आदिनीशब्दो यस्मात्परस्तत्र परे इत्यर्थं हरदत्तो व्याख्यत् अद्धातौ माधवोऽप्येवमेव । ईदृशाक्रोशस्य स्त्रीष्वेव दर्शनाच्च । आक्रोशो निन्दा; तदाह – पुत्रादिनीति । तादृशाक्रोशस्य स्त्रीष्वेव दर्शनादाह – पुत्रहतीति । अनचि च [[८.४.४७]] इति सिद्धे पुत्रस्य क्तान्ते चेद्धतजग्धयोरेव, आक्रोशे एव इति नियमार्थमिदम् ॥