चो विद्ध्यर्थः । ध्वनितञ्चेदं एओङ् सूत्रे भाष्ये तदाह - द्वे वा स्त इति । सूत्रकृता शाकल्यमते सर्वत्र द्वित्वाभावोक्तेरिति भावः । अवसाने द्वित्वसिद्धयेऽनचीति प्रसज्यप्रतिषेधस्तदाह - न त्वचीति । इदं द्वित्वं षाष्ठद्वित्ववद् द्विःप्रयोग एव । (यरोऽनुनासिकेऽनुनासिको वा [[8.4.45]]) यर इत्यादेरध्याहृतोच्चारणक्रियानिरूपितकर्मषष्ठीत्वस्यौचित्यात् । इति धस्येति । न तु द्वित्वे पूर्वधस्थाने जश्त्वनिष्पन्नदस्यापि लक्ष्ये लक्षणम् इति न्यायात् । विकारान्यत्वेन न लक्ष्यभेद इत्यन्यत्र प्रपञ्चितम् ॥