लोपः शाभोभगोअघोअपूर्वस्य [[८.३.१७]] इति “अशि” इति चानुवर्त्तते । तत्रौकारान्तेषु ओतो गार्ग्यस्य [[८.३.२०]] इति बाधकमित्याशयेनाह - अवर्णपूर्वयोरिति । व्योरित्यनुवृत्तावपि वर्णसमाम्नाये यकारस्य प्राक्पाठात्तत्क्रमेणाह - यवयोरितिस तस्मा आचष्टे इत्यादिभाष्यप्रयोगादत्र रोरित्यस्यासम्बन्धः । इदं सूत्रं लघुप्रयत्ने न । शाकटायनमते तयोर्विधानेन शाकल्यमते तदभावात् । अवर्णेति किम् ? गौर्यत्र । पदान्तयोः किम् ? हरये । अशि किम् ? वृक्षं वेतीति वृक्षवी: ? क्विप् तमाचष्ट इति ण्यन्ताद् विच् । वृक्षव् करोति । क्विपि तूठ् स्यात् । विज्निमित्तको लोपो व्योर्वलि [[६.१.६६]] इति लोपस्तु न । णिलोपटिलोपयोः स्थानिवत्त्वात् । प्रातिपदिकाण्णिजुत्पत्त्या पदत्वाभावेन पर पदस्थाजादेशाभावेन च लोपस्य पदचरमावयवत्वाभावेन च न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु [[१.१.५८]] इति निषेधाप्रवृत्तेः । एतेन विज्निमित्तको वलोपोऽत्र दुर्वार इत्यपास्तम् । किञ्च स्थानिवत्त्वनिषेधं विनाऽस्य पदान्तत्वासिद्ध्यात्र निषेधाप्रवृत्तिः । स्थानिवत्त्वनिषेधज्ञाने पदान्तत्वज्ञानं तन्निर्णये च स्थानिवत्त्वाभावज्ञानमित्यन्योन्याश्रयस्तत्राप्रवृतौ मानम् । इदञ्च न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु [[१.१.५८]] सूत्रे भाष्ये स्पष्टम् । न च पदसञ्ज्ञायां टिलोपस्य स्थानिवत्त्वाद्वस्य पदान्तत्वमेव नास्तीत्यशीति व्यर्थमिति वाच्यम् । “पूर्वत्रासिद्धीये” इति निषेधात् । साक्षात्, पदत्वादिद्वारकपरम्परया वा पूर्वत्रासिद्धीयप्रापकस्य तत्प्रतिबन्धकस्य वाऽतिदेशस्य तेन निषेधादिति केचितू । परे तु न पदान्ता हलोऽणः सन्ति इति लण्सूत्रस्थभाष्याद्वृक्षवादेरनभिधानमेव । भोभगोअघोअपूर्वस्य [[८.३.१७]] इति सूत्रे <!अश्ग्रहणमनर्थकमन्यत्राभावात्!> इति वार्त्तिकाच्च । अशोऽन्यत्र तन्निमित्तकार्यिणोऽभावादिति तदर्थः । न ह्यन्यत्र रुरस्ति इति तद्वयाख्यानभाष्ये रुग्रहणमुपलक्षणम् । एतदाशयमजानानेनैकदेशिना उत्तरार्थं हलि सर्वेषाम् [[८.३.२२]] इति वृक्षव् करोतीत्यत्र मा भूत् इत्युक्तम् । अस्य चैकदेश्युक्तित्वं लण्सूत्रस्थोक्तभाष्यविरोधेन स्पष्टमेव कैयटेनोक्तम् । अत एव भाष्ये उत्तरार्थमित्युक्त्वा हलि सर्वेषाम् [[८.३.२२]] इत्यत्रैव प्रयोजनमुक्तम् । हलि सर्वेषामित्यत्र वकारनिवृत्त्यैवात्र तद्वारणसम्भवान्न तत्राप्यश्ग्रहणस्य प्रयोजनमिति तद्भाष्यमेकदेश्युक्तिरेवेत्याहुः । कानि सन्तीति । वाक्यसंस्कारपक्षेऽपि पूर्वोपस्थितनिमित्तकत्वरूपान्तरङ्गत्वमादायान्तरङ्गाणां पूर्वं प्रवृत्तिरितीकारादेः स्थानिभूतादचः पूर्वत्वं बोद्ध्यम् ॥