निर्देशादिति । न च कर्त्तरि चर्षिदेवतयोः [[३.२.१८६]] इत्यादौ गुणस्य पदद्वयसम्बन्धिवर्णद्वयाश्रितत्वेन बहिरङ्गत्वाद्रेफाभावेन न विसर्ग इति वाच्यम् । गुणस्येव पदद्वयसम्बन्धिरेफखरात्मकवर्णद्वयाश्रितत्वेन विसर्गस्यापि तत्त्वात् । पर निमित्तकत्वमप्युभयोः समम् । किं च कार्यकालपक्षे त्रिपाद्यां तदुपस्थितावपि पूर्वं प्रति परस्यासिद्धत्वादन्तरङ्गाभावेन पूर्वस्यान्तरङ्गनिरूपितबहिरङ्गत्वाभावात्कथं तस्यासिद्धत्वप्रतिपादनम् । न चानया पूर्वस्यासिद्धत्वादभावेन तं प्रति परासिद्धत्वं पूर्वत्रासिद्धम् [[८.२.१]] इत्यनेन वक्तुमशक्यमिति वाच्यम् । एवं हि विनिगमनाविरहादुभयोरप्यप्रवृत्तौ विसर्गो दुर्वारः । एवञ्च विरोधात्कार्यकालपक्षेऽपि तदनुपस्थितिरेव त्रिपादीस्थेऽन्तरङ्गे उचिता । अत एव विसर्जनीयसूत्रे (खरवसानयोर्विसर्जनीयः [[८.३.१५]]) भाष्ये इमावेव युक्तिमुक्त्वा अयुक्तोऽयं परिहारो न वा बहिरङ्गलक्षणत्वात् इत्युक्तम् । एवञ्च तत्र तत्र वचनान्येव कार्याणि ज्ञापकानुसरणं वा कर्त्तव्यम् । अत एव निगाल्यते इत्यादौ लत्वाद्यर्थं “तस्य दोष” इति वचनमेवारब्धम् । अन्यथाऽन्तरङ्गत्वाण्णिलोपात्पूर्वं वैकल्पिकलत्वे चक्र्यत्र, माषवपनी इत्यादौ बहिरङ्गासिद्धत्वेन च सिद्धे तद्वैयर्थ्यं स्पष्टमेव । यत्तु लक्ष्यानुरोधात्कार्यकालपक्षे उपस्थितयान्तरङ्गपरिभाषयाऽऽनुमानिक्या प्रत्यक्षसिद्धस्यापि पूर्वत्रेत्यस्य बाध इति, तन्न लक्षणैकचक्षुषामादरणीयम्। अत एव उरण् रपरः [[१.१.५१]] इति सूत्रे रेफस्य पूर्वान्तवत्त्वे विसर्जनीयप्रतिषेधो वक्तव्यो नार्कुटाद्यर्थम् इत्युक्तं भाष्ये इति दिक् । उपसर्गेणैवेति । तत्सञ्ज्ञायाः क्रियायोगनिमित्तत्वादित्यर्थः । यदर्थे क्रियारूपे प्रादीनामन्वयस्तं प्रत्येवोपसर्गत्वमिति भावः । प्रकृते च प्रत्यासत्त्या ऋकारादिनिमित्तोपसर्गग्रहणात् प्रगतः ऋद्धः “प्रर्द्ध” इत्यत्र न । पुनरिति । प्रकृतसूत्रे भाष्ये स्फुटमेतत् ॥