इति पक्षे इति । विनिगमनाविरहादिति भावः । द्वित्वस्य त्रैपादिकत्वात्तत्र न यणो बहिरङ्गासिद्धत्वम् । अत एव दद्ध्यत्र इति भाष्ये उदाहृतम् । धकारयकारयोरिति । तेन विसर्गादिद्वित्वेनाधिक्येऽपि न क्षतिः । द्विधमिति । द्विधत्वं प्रक्रियायां बोद्ध्यम् । एकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भविष्यति इति कृञ्चानुप्रयुज्यते लिटि [[३.१.४०]] इति सूत्रभाष्योक्तन्यायेनैकस्य द्वित्वे परस्य तदभावोऽनुचित इति न वाच्यम् । सार्थकानेकविषये तन्न्यायाङ्गीकारात् । यत्रान्याकृतिकरणे भिन्नार्थत्वसम्भावना तद्विषयत्वाच्च । हलो यमां यमि लोपः [[८.४.६४]] इति लोपे द्वित्वाभावे चैकधमेव रूपम् ॥