तस्य परम् । अवयववाचिपरशब्दयोगेऽत एव ज्ञापकात् षष्ठी । तस्य ग्रहणं स्पष्टार्थम्, द्वे इत्यनुवर्त्य षष्ठ्या विपरिणामेन सिद्धेः । अन्यद्विरुक्तपरस्य तु न सञ्ज्ञा, अष्टमे सर्वस्य द्वे [[८.१.१]] इत्येतत्प्रकरणे सञ्ज्ञाकरणात् ॥