नाम्रेडित । अव्यक्तानुकरणस्य इति अत इति च वर्त्तते । अव्यक्तानुकरणावयवीभूताऽऽम्रेडितावयवाच्छब्दस्येत्यर्थः । “नाम्रेडितस्य तस्तु वा” इति न सूत्रितं वैचित्र्यार्थम् । फलकल्पनाभिनिवेशस्तु न युक्तो भाष्यानुक्तेः । अत एव तदधीते तद्वेद [[४.२.५९]] इति सूत्रे द्विस्तद्ग्रहणं प्रमादकृतमाचार्यस्य इति भाष्ये उक्तम्। लाघवानवधानलक्षणोऽत्र प्रमाद इति कैयटः । क्व तदवधानं ? क्व तदनवधानमिति तु भाष्यकृदुक्तप्रयोजने तदवधानमन्यत्रान्यदिति निर्णेयम् । ननु डाचोऽभावादेतदप्राप्तिरत आह - बहुलवचनादिति