अव्यक्तशब्दार्थो - ध्वनेरिति । अविद्यमानकत्वादिशब्दस्येत्यर्थः । तस्य चाच्छब्दोऽनुकरणे एव सम्भवतीत्याह - अनुकरणस्येति । अत्र अलोन्त्यस्य [[१.१.५२]] इति न प्रवर्त्तते, “नानर्थके” (<ऽनानर्थकेऽलोन्त्यविधिरनभ्यासविकारेऽ> <{PB१०५}>) इति निषेधात् । “आम्रेडितस्य वा” इति वक्तव्ये नाम्रेडितस्यान्त्यस्य तु वा [[६.१.९९]] इत्यारम्भाद्वा । अत इति किम् ? वटक् इति ॥