ओमाङोः । अत्र एङीति नानुवर्त्तते । तेनेषदर्थकाऽऽङा सह ऋषभशब्दस्य समासे अद्य अर्षभः इत्यत्र पररूपेऽद्यर्षभसिद्धिः । न चात्र परत्वाद्दीर्घप्रसङ्गः । प्रतिपदविधित्वञ्च निरवकाशत्वे सत्येव बाधकत्वे प्रयोजकम् । इदञ्च मध्येऽपवादन्यायेन अवेहि इत्यादौ वृद्धेरेव बाधकं स्यादिति वाच्यम्, लक्ष्यानुरोधेनात्र बाध्यसामान्यचिन्ताश्रयणात् । अन्यत्र प्रतिपदविधित्वस्य बलवत्त्वे प्रयोजकतादर्शनेन परदीर्घात्पूर्वं पररूपप्रवृत्तेश्च ॥