वाक्यभेदेनेति । इदं वृत्तौ स्पष्टं, भाष्ये तु न दृश्यते । <!एवे चानियोगे!> (वा० [[६.१.९४]]) इति वार्त्तिकं सूत्रे धातावित्यनुवृत्तेरारब्धम् । अवधारणं नियमः । एवशब्दस्य द्योत्यमर्थद्वयमवधारणमसम्भवरूपानवक्लृप्त्यादि च । तयोरन्त्योऽत्रैवशब्दार्थ इत्यभिप्रेत्याह – अनवक्लृप्तावेवेति । क्वेव भोक्ष्यसे इत्युक्तेः स्थलसङ्कीर्णत्वादिना नास्ति सम्भवस्तव भोजनस्येति गम्यते ॥