सुब्धाताविति । सुबन्तप्रकृतिके धातावित्यर्थः । तुल्यास्यसूत्रे (तुल्यास्यप्रयत्नं सवर्णम् [[१.१.९]]) उपार्कारीयति इत्यादेरेतदुदाहरणत्वस्य भाष्ये उक्तत्वात् । शास्त्रे सुबन्तस्य धातुप्रकृतित्वेनोक्ततया तत्प्रकृतिके इति व्याख्यानमेवोचितम् । ऋषभस्य समीपमुपर्षभं तदिच्छति उपर्षभीयति इत्यत्र तु न वृद्धिः, उपेत्यस्यानुपसर्गत्वात् । अत्रापि धाता वित्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेन सुब्धातावपि न प्रकृतिभावः । प्रार्षभीयतीति । अत्र शरोऽचि [[८.४.४९]] इत्यस्यानुपन्यासेन व्यञ्जनात्परस्यैकस्यानेकस्य वोच्चारणे विशेषाभावेन अचो रहाभ्यां द्वे [[८.४.४६]] इत्यस्य तन्निषेधस्य चानावश्यकता सूचिता ॥