उपसर्गादृति । तपरकरणात् उपऋकारीयति इत्यादौ वा सुप्यापिशलेः [[६.१.९२]] इति न वृद्धिः । सौत्रऋतिस्तु न गृह्यते, व्याख्यानात् । आदित्यनुवृत्तेन तदन्तविधिरित्याह - अवर्णान्तादिति । “यस्मिन्विधिः” (<ऽ यस्मिन्विधिस्तदादावल्ग्रहणे ऽ> <{PB३३}>) इति परिभाषयाऽऽह – ऋकारादाविति । पूर्वपरयोस्तयोः समुदाययोरन्त्याद्योर्वर्णयोरेकादेश इत्यर्थः । उपसर्गावयवाकाराद्धात्ववयवे ऋकारे तयोः पूर्वपरयोर्वृद्धिरित्युचितम् । गतेरिति तु नोक्तम् । अच्छर्छति इत्यादौ दोषात् ॥