एत्येध । ऊठ् अत्रादेश एव, व्याख्यानात् । एचीति नोठो विशेषणमूठस्तत्त्वासम्भवात् । “एत्येधत्योः” इति योगं विभज्य तयोरेवैचीति विशेषणस्य भाष्ये कृतत्वाच्च तदाह – एजाद्योरिति । एतिरत्रेणेव प्रसिद्धत्वात् । उपैति इत्यादौ वृद्धिरेचि [[६.१.८८]] इत्यनेन गतार्थत्वमाशङ्क्याह - पररूपगुणेति । एत्येधत्योरेङि पररूपस्योठि चाऽऽद्गुणस्येति विवेकः । उपेधत इति । अत्र न सर्वादेशः । एत्येधत्याद्यवयवेऽचीत्येवं क्रमेण सूत्राणामर्थात् । अयमेवार्थ इति प्रत्ययलक्षणसूत्रस्थभाष्यस्वरसः । वृक्षे शाखा इतिवत् एत्येधत्यूठ्स्विति सप्तमी बोध्या । प्रष्ठौह इति । प्रष्ठं वहतीत्यर्थे वहेर्ण्वौ ततः शस्यूठि सम्प्रसारणे पूर्वरूपेऽनेन वृद्धिः । प्रेदिधदिति । परे तु <!इणीकारादौ प्रतिषेधः!> इति वार्त्तिके एधत्यनुपादानात् “न त्वेधतेरव्यभिचारात्” इति वृत्तेश्चास्यानभिधानमेव । एत्येधत्योरेचीति विशेषणम् इति भाष्यस्यैधत्यंशे सम्भवमात्रेणोपरञ्जकतया विशेषणमित्याशय इत्याहुः । उपैधयते इत्यादावपि वृद्धिर्भवत्येव, प्रकृतिभागस्यैध्रूपत्वात् । किञ्च एत्येधत्यवयवेऽचीत्यर्थः प्रत्ययलक्षणसूत्रभाष्यसम्मत इति अत्र न दोषः । पुरस्तादिति । <ऽ पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान् ऽ> <{PB६०}> इति न्यायः । अवश्यं स्वपरस्मिन्बाधनीये भेदेनापेक्षायां प्रथमोपस्थितबाधेनाऽऽकाङ्क्षानिवृत्तिर्हि तद्बीजम् । असाधुरेवेति । आङिणोरेकादेशस्य पूर्वान्ततयाऽऽङि पररूपेण बाधादिति भावः । अर्थवद्ग्रहणे इति । अस्या बीजं स्वं रूपमिति सूत्रे उक्तम् । पररूपे प्राप्ते इति । पूर्वं धातुः साधनेन युज्यते इति सिद्धान्तादिति भावः ॥