अन्तादि । इह पूर्वपरयोरिति वर्त्तते यथासङ्ख्यञ्च । अन्तादिशब्दावुपस्थितैकादेशस्थानिपरौ । पूर्वपरशब्दौ च तद्घटितसमुदायपरौ । एवञ्च पूर्वस्य परस्य समुदायस्यान्तादिभ्यां वर्णाभ्यां पृथगवस्थिताभ्यां ये व्यवहाराः प्रातिपदिकत्वसुबन्तत्वप्रत्ययत्वादयस्ते कृतैकादेशस्य भवन्ति, न तु तद्वर्णमात्रवृत्तयोऽत्वह्रस्वत्वादय इत्यर्थस्तत्फलितमाह - योऽयमित्यादि । तेन रामौ इत्यादौ परादिवत्त्वेन “औ” इत्यस्य सुप्त्वे पूर्वमान्तस्यैकदेशविकृतन्यायेन (<ऽएकदेशविकृतमनन्यवत्ऽ> <{PB३७}>) प्रकृतित्वे यस्मद्विहितस्तदादितदन्तत्वमार्थसमाजग्रस्तमिति पदत्वसिद्धिः । तद्वर्णमात्रवृत्तिधर्मानतिदेशात् खट्वाभिः इत्यत्रात्वनिबन्धन ऐस् न । अयजे इन्द्रम् इत्यादौ सवर्णदीर्घश्च न । अत एव तुक्यसिद्धिवचनं चरितार्थम् । अन्यथा अधीत्य इत्यादावादिवत्त्वेन ह्रस्व त्वप्रयक्ततुक्सिद्धौ तद्वैयर्थ्यं स्पष्टमेव । तदुक्तं वर्णाश्रये चान्तादिवत्त्वप्रतिषेधो वक्तव्यो न वाऽताद्रूप्यातिदेशात् इति । अन्तादिवर्णमात्रवृत्तिधर्मानतिदेशादिति तदर्थः । क्षीरपेण इत्यादावेकारविशिष्टे एकाजुरपदत्वं भवत्येव । स्थानिवद्भावेन तु नैतल्लभ्यम् । अप्राधान्येनालाश्रयणात् । किञ्च एकादेशे वर्णयोरेव स्थानित्वं न समुदायस्येति भी ई “भिय” इत्यादावेकादेशविशिष्टे धातु त्वानापत्तिः । धातुत्वस्यैकादेशस्थानिधर्मत्वाभावात् । आनुमानिकादेशकल्पकवाक्यम् अन्तादिघटितसमुदायस्यैकादेशघटित आदेश इत्येव, न तु प्रत्येकं तयोः स्थानित्वबोधकं, तथा सति स्वाश्वशब्दस्य स्थानिवत्त्वेन स्वशब्दतया तत ईरिन् शब्दे वृद्ध्यापत्तेः । किञ्च भवत्सम्मतस्य उभयत आश्रयणे नान्तादिवत् इत्यस्यासङ्गतौ भवत्सम्मत अभीयात् इत्याद्यसिद्धिः । स्थानिवत्त्वं तूभयत आश्रयणे इष्यत एव। अन्यथा अचः परस्मिन् पूर्वविधौ [[१.१.५७]] इत्यस्याप्युभयत आश्रयणेऽप्रवृत्त्यापत्तौ प्लायते इत्याद्यसिद्धिरिति दिक् ॥