एकः पूर्व । गुण इत्यादेर्विधेयसमर्पकत्वेन तत्रैकत्वसङ्ख्याया विवक्षणेनोभयोः पूर्वपरयोरेकवाक्यतयैव विधेयान्वयेन च अनयोः पूलयोः कटं कुरु इत्यादित इवोभयसम्बन्ध्येकविधेयस्यैव प्रतीतेरेकग्रहणं स्पष्टार्थम् ॥